________________
श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्ग. ४ (१५७
शतमखस्त मखंडितपौरुषं, सपदि मातगृहे विहिताग्रहः । अभिनिषण्णवरेन्दुमुखीद्वयं, जिनवरं नवरंगभृदासयत् ।। ७२ ।।
(व्या०) शतमखेति ॥ नवरंगमृत् (किम् । ५ । १ । १४८ । इ. सू. नवरङ्गापूर्वकभृधातो कर्तरि विवप् । हस्वस्य त· पित्कृति । इ सू. त ) नवश्वासौ रंगश्च तं बिभर्तीति नवीनहर्षरूपरंगभृत् शतमखः शतं मखा यज्ञा यस्य स इन्द्र विहिताम्रहः विहित आग्रहो येन स. कृताग्रह सन् तं जिनवरं सपदि शीघ्रं मातृहे निषण्णवरेन्दुमुखीद्वयं इन्दुवन्मुख ययोस्ते इन्दुमुख्यौ तयोर्द्वयं वरं च तत् इन्दुमुखीद्वयं च निषण्णं च तत् परेन्दुमुखीद्वयं च प्राग्निविष्टवधूयं अभि संमुख आसयत् उपवेशयति स्म । (लक्षणवीस्थत्यम्भूतेष्वभिना । २-२-३६ इ. सू. निषण्णवरेन्दुमुखीद्वयमित्यत्र अभियोगे द्वितीया ।) अभियोगे द्वितीया । किं लक्षणं भगवन्तं अखंडित पौरुष न खंडितं पोरुष यस्य स तं अखंडितपराक्रमम् ॥ ७५ ॥ दृष्ट्वाऽऽयान्तं नोदतिष्ठाव नाथ, नाथ स्वासाविष्कृतिः संगता नौ । ध्यात्वेतीव स्वामिनोऽभ्यर्णभावे, ते नीरंगीगोपितास्ये अभूताम् ।।
(व्या०) दृष्ट्वेति ॥ अथानन्तरं ते सुमंगलासुनन्द स्वामिनोऽभ्यभावे (क्तत्तवतू । ५ । १ । १७४ । इ. सू. अभिपूर्वक अर्दधातो वे क्तः । अवि. दूरे अमेः । ४ । ४ । ६४ । इ. सू. इडभाव । दादपूछमद तयोर्दस्य च । ४ । २ । ६९ । इ. सू. तस्य न रषवर्णानोण एकपदेऽनन्त्यस्यालचटत वर्गशसान्तरे । २ । ३ । ६३ । इ. सू. नस्य ण धातोर्दस्य च) सामीप्ये नीरंगीगोपितास्ये नी रंग्या गोपितमाच्छादितमास्यं वदनं याभ्यां ते अभूताम् । कि कृत्वा उश्यते-इति ध्यात्वाइव इतीति किं आवा नाथं स्वामिनमायान्तं दृष्ट्या नोदतिष्ठाव जोत्थिते । नौ आयो स्वास्याविष्कृतिः स्वस्यात्मीयस्य आस्यस्य मुखस्य आविष्कृतिः- प्रकटीकरण नि संगता न युता ॥ ॥ ७६ ॥ . ., लावण्यवारिसरसोदयितादमुष्मात; पातुं प्रकाशमानलंनयनद्वय नौ । पानेन तिरिह चौरिकयानक्राचि-देव मिथोऽकथयतामपृथुस्वरं ते॥