________________
- १५४) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ४ ।
नव्ययाऽरुषोर्मोऽ-तो हस्वश्च । ३ । २।१११ । इ. सू. पशशब्दस्यमोऽन्तः) कासु सतीषु धुसद्धूषु द्युसदां वध्वः तासु देवाङ्गनासु इतरेतरां (परस्पराऽन्योन्ये तरे तरस्याम् स्यादेर्वा पुंसि । ३ । २ । १ । इ. सू. इतरेतरशदात् स्यादे वाम् ।) परस्परं इति ईरयन्तीषु कथयन्तीषु सतीषु । इतीति किं हे उरुस्तनस्थले उरुणी गुरुणी स्तनस्यले यस्याः सा उरुस्तनस्थला तस्याः संबोधनं क्रियते त्वं स्थालं समानय । हे चित्रिणि चक्रदत्तत्वात् स्तनयो समत्वात् मधुगंधत्वात् चक्रकेशत्वात् चित्रिणि उच्यते चित्रिणी आश्चर्यकारिणी च तस्याः संबोधन हे चित्रिणि अत्र स्थाले दूर्वा च अन्यद् दधि निधेहि निवेशय । हे सुलोचने शोभनानि लोचनानि यस्याः सा तस्याः संबोधनं हे सुलोचने त्वं चन्दनद्रवं चन्दनस्य द्रवस्त संचिनु संचितं कुरु । हे बुद्धिबंधुरे (पाश्यसिवासिमसिमथ्युन्दिमन्दिचतिरः । इ. उ. सू. बन्धधातो उर । बध्नाति मनः इति बन्धुरा ।) बुद्धया बन्धुरा मनोज्ञा तस्याः संबोधनं त्वं शरावयोः युग्मं शरावयुग्मं तत् धर । हे गतिमन्थरे (च्छिचटिवटिकुटिकठिवठि-र । इ. उ. सू. मन्थधातो: अर प्रत्ययः । मनातिपादौ इति मन्थरा । ) गत्यामन्थरा अलसा तस्याः संबोधनं त्वं मन्थं मन्थानकं गृहाण । हे जगजनेष्टे जगतो विश्वस्य जनाना मिष्टा अभीष्टा तस्याः संबोधनं त्वं युगं गृहाण हे पेशले मनोज्ञे त्वं मुशलं गृहाण । लग्नलक्षणः लानं लक्षणं यस्य स. क्षण कोलविशेष: समासीदति आसनः स्यात् । परो द्वारि कियचिरं कियाकालं अवतिष्ठताम् । (संविधावात् । ३ । ३ । ६३ । इ. सू. अवउपसर्गात् । परस्यस्थाधातोरात्मनेपदम् ) अवयोगादात्मनेपदमत्र ज्ञेयम् । हे हलाः हे सख्यः इह जगति निजे आत्मीये उप्रशस्त्र उकटायुधे कुसुमनजे कुसुमाना जस्तस्मिन् पुष्पसमूहे जनोमणा जनानामुमा तेन लोकवायण ग्लानि (लाहायः । ५।३ । ११८ । इ. सू. ग्लानिरित्यपि केचिदिच्छन्ति ।) शो५ मुपागते सति प्राप्ते सति महाबलेनापि महत् बलं यस्य स तेन मनोभुवा कामेन अत्र देवे कथं प्रभविष्यते कथं समर्थीभविष्यते । कि विशिष्टे अत्र भवान्तके भवः संसारो महेशो वा तस्य अन्तके यमप्राये भवे कामो जितः भवस्यापि जेता अयं कामेन कथं जेष्यते इति व्यंग्यम् । ५५ मरुत् पवनश्चन्दनद्रवस्य घनत्व