________________
श्रीजनमारसम्भवाल्यं महाव्यम् टीकासमलंहतम् ॥ सर्गः ४ (१५३
गृहाण मंथं गतिमंथर युगं, जगज नेष्टे मुशलं च पेशले।। क्षणः समासीदति लमलक्षणः, कियश्चिरं द्वारि वरोऽवतिष्ठताम् ।६५॥ इहोप्रशस्त्रे कुसुमबजे निजे, जनोष्मणा म्लानिमुपागते हलाः। महाबलेनापि मनोभुवा भवां-तकोऽत्रदेवे प्रभविष्यते कथम् ॥६६॥ धनत्वमापद्य मरुनचन्दन-द्रवस्य मुष्णाति किभेष सौरभम् । उलूलपूर्वाय परार्घकर्मणे, विमुच्यतां तस्करकंठकुंठताम् ॥ ६७ ।। इतीरयन्तीवितरेतरांद्युस-द्वधूषु काचित्करपाटवांचिता । विलोलकौसुंभनिचोलशालिनी, प्रभातसंध्येव समग्रकर्मणाम् ॥ ६९ ॥ मणिमयस्थालभृतार्घसाधना, वशोचिताया न वशंवदा हियः। वराभिमुख्यं भजति स्म सस्मया, न कोऽथवास्वेवसरे प्रभूयते ॥६९॥
षड्भिः कुलकम् ॥ (०या०) समानयेति । काचित् स्त्री सस्मया स्मयेन सहवर्तते इतिसस्मया (सहस्तेन । ३ । १ । २४ । इ. सू. सहपूर्वपद बहुव्रीहिः । ) सगर्वा सती वराभिमुख्यं वरस्याभिमुख्य तत् परस्य सन्मुखत्वं भजतिस्म सेवते स्म । अथवा स्वे आत्मीये अवसरे को न प्रभूयते समर्थो न भवति अपि तु सर्वः कोऽपि भवतीत्यर्थः । किं लक्षणा स्त्री करपाटवाश्चिता करयोः पाटवेन अश्चिता हस्तलाधवेन युक्ता । विलोलकोसुंभनिचोलशालिनी विलोलेन चंचलेन कौसुभेन (रागाहोरक्ते । ६ । २ । १ । इ. स. कुसुम्भशब्दात् रक्तेऽर्थे अण् प्रत्ययः । वृद्धि स्वरे वादेणिति तद्भिते । ७ । ४ । १ । इ. सू. आधस्वरस्यवृद्धि ।) निचोलेन प्रच्छदपटेन शालते इति शालिनी शोभमाना । उत्प्रेक्ष्यते समप्रकर्मणां समत्राणि च तानि कर्माणि च तेषां प्रभातसंध्या इव प्रभातस्य संख्या इव । कि विशिष्टा स्त्री मणिमयस्थालधृतार्थसाधना मणीमयं च तत् स्थालं च तस्मिन् धृतानि अर्धस्य साधनानि यया सा । प्रशोचितायाः वशाया. स्त्रिया संचिता योग्या तस्या स्त्रीयोग्याया: हियः लजाया. न वशंवदा न-वश्या वशं पदतीति परावद।। (प्रियपशाद: ५।१ । १०७ । इ. सू. पशपूर्वक पद्धातोः खप्रत्ययः । खित्य