________________
१५२) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकसिमलंकृतम् ।। सर्गः ४
हेतुमाह-वस्थगतो आत्मनो गतीकला गुरु: कलाचार्यः । ऐरावणेन प्रभोः पार्श्व गतिकला शिक्षिता । अत प्रभुस्तस्य कलागुरु । मुखश्रीमुखितेन्दुमंडल: मुखस्य श्रीः तया मुखितं लक्षणया जितं इन्दोश्चन्द्रस्य मंडलं येन सः । दुरापदर्शनः दुःखेन आप्यते इति दुरापं दुर्लभं दर्शनं यस्य सः ॥ ६१ ।। अथावतीर्येभविभोः ससंभ्रम, प्रदत्तबाहुः पविपाणिना प्रभुः । मुहूर्त मालंय तमेव तस्थिवान्, श्रियः स्थिरस्वति वचः सरभिव ।६२।
(व्या०) अथेति ॥ अथानन्तरं प्रभुः श्रीऋषभदेवः पविपाणिना पविर्वनं पाणौ हस्ते यस्य स तेन इन्द्रेण प्रदत्तबाहुः प्रदत्त: बाहुर्यस्य सः सन् इभानां करिणां विभुः स्वामी तस्मात् ऐरावणात् अवतीर्य तमेव इन्द्रमालव्य मुहूर्त तस्थिवान् (तत्र पसुकानौ तद्वत् । ५ । २ । २। इ. सू. स्थाधातोः परोक्ष क्वसुः तस्थौ इति तस्थिवान् ) स्थितः । उप्रेक्ष्यते-इति वचः स्मरन्निव इतीति कि स्थिरस्थ श्रियः स्युरिति ॥ ६२ ॥ न दिव्ययाऽरजि स रंभया प्रभु, हरेनटः शिक्षितनृत्यया तथा । नमस्खता नर्तितयानतोरण-स्थया यथाऽण्यनिवासया तथा ॥६३॥
(व्या०) नेति ॥ स प्रमुर्दियया देवलोकसत्कया रंभया तथा न अरञ्जि। कि लक्षया रंभया हरेरिन्द्रस्य नटैः शिक्षितनृत्यया शिक्षितं नृत्यं यस्याः सा । वमा नभस्वता (तदस्याऽस्त्यस्मिन्नितिमतुः । ७-२-१। इ. स. नमस् शब्दात् मतुः । मावा-तोपान्तापञ्चमवर्गान् मतोर्मोव, । २-१-९४ । इ. सू. मताभस्व वः । नभः अस्थास्तीति न भस्वान्) वायुना नर्तितया अग्रतोरणस्थया (स्थापामात्र कः । ५।१।१४२ । इ. स. अनतोरणशब्दात् स्थाधातोः कः । सहस्तेन । ३-१-२४ । इ. सू. सहपूर्वपदबहुव्रीहिः) तोरणस्य अगं अग्रतोरणं तत्र तिष्ठति तया अरण्यनिवासया अरण्ये पने निवासो यस्याः सा तया रंभया कदल्या अरजि ॥ ६३ ॥ समानय स्थालमुरुस्तनस्थले, निधेहि दूर्वां दधि चात्र चित्रिणि । सुलोचने संचिनु चन्द्रनद्रवं शराबयुग्मं घर बुद्धिबंधुरे ॥ ६४ ॥