________________
१४८) श्रीजेनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ४
ते । सुरसार्थतोषिण शोभनोरसो येषां ते सुरसाः ते च ते अर्थाच सुरसार्थास्तैः तोषयन्ति हर्षयन्तीत्येवं शीलाः कल्याणगिरि कन्यागा चासौ गीश्च तस्यां शुभवाण्यां स्थिता । अथ नाकतटाकानां विशेषणानि किं लक्षणा नाकतटाकाः प्रबुद्धपद्मा: प्रबुद्धानि विकसितानि पद्मानि कमलानि येषु ते विकसितकमला न ननादिषट्पदानादिन घट्पदा भ्रमरायेषु ते एवं विधा न इति न अपि तु नादिपट्पदा गुंजमरा ' द्वौ नञौ प्रकृत्यर्थ गमयतः' इति नियमात् उदारवृताच वृत्ताकाराः । सुराणां देवानां सार्थाः समूहास्तान् तोषयन्तीयेवंशीलाः कल्यास्य सुवर्णस्य गिरि पर्वतस्तस्मिन् मेरुपर्वते स्थिताः ॥ ५३ ॥ अभर्मभृत्यश्चलितेऽर्हति प्रभाः, प्रभाकरः स्वा विनियुक्तवांस्तथा । यथा वृथाभावमवापनोदिवा, न तापमापत्सत जान्यिका अपि ॥ ५४ ॥
( व्या० ) अभर्म इति । प्रभाकरः (संख्याऽह दिवाविभानिशाप्रभा-ट्टः । ५ । १ । १०२ । इ. सू. प्रभापूर्वक कृग्धातोः टः प्रभां करोतीति प्रभाकरः । ) सूर्य अर्हति श्री ऋषभदेवे चलिते सति वा आत्मीयाः प्रभा तथा विनियुक्तवान् व्यापारितवान् । किं लक्षण: प्रभाकर अभर्मभृत्य अभर्मणा ( म्रियते अनेनेति भर्म । मनू इ. उ. सू. भृधातोः मन् । न भर्म अभर्म 1 ) भृत्य (भृगोऽसंज्ञायाम् । ५ । १ । ४५ । इ. सू. भृधातो. असंज्ञायां क्यप् । ह्रस्वस्य त' पिकृति | इ. सू. तोन्त । ) ग्रासं विना सेवक । यथा दिवा दिनं वृथाभावं न अवाप न प्राप | जान्यिका (हृद्यपद्यतुल्यमूल्यवश्यम् । ७ । १ । ११ । इ. सू. जन्यशब्दो निपात्यते । विनयादिभ्यः । ७ । २ । १६९ । इ. सू. स्वार्थे इक । जवर्णे इकण् वर्णस्य । ७ । ४ । ६८ । इ. सू. अलोपः जन्या एव जान्यिका) अपि तापं
न आपत्सत न प्राप्तवन्तः ॥ ५४ ॥
तथा प्रसन्नत्वमभाजिमार्गगे, जगत्रयत्रातरि मातरिश्वना । यथा दृगांध्यं न रजस्तनूमतां, चकार धर्मास्तु च चिक्लिदं वपुः ||
( व्या० ) तथेति ॥ मातरिश्वना (श्वन् मातरिश्वन् ति । ९०२ । इ. उ. मू अन् प्रत्ययान्तो मातरिश्वन् शब्दो निपात्यते । मातरि आकाशेश्वयति गच्छ