________________
श्री जैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सगः ४ (१४७
रहितशस्त्रहस्ताः । स सर्वप्रसिद्धो जन्ययात्रेत्यभिधासमुद्भव (अभिधीयते अनया इति अभिश्रा उपसर्गादातः । ५ । ३ । ११० । दृ सू अभिपूर्वकधाधातोः भावाकर्त्रीरड् । 'आत्' इ सू. आप् ) विवाहयात्रोत्पन्न पक्षे संग्रामयात्रोत्पन्नो भ्रम कि विबुधान् देवान् विदुषोऽपिवा किं अमृमुहत् मोहयति स्म । किमिति संगये ॥ ५१ ॥
प्रसिद्धः एकः किल मंगलाख्यया, ग्रहाः परेऽष्टावपि मंगलाय ते । इतीरयन्तीव सुरैः करे धृता, पुरोगतामस्य गताष्टमंगली ॥ ५२ ॥
( व्या० ) प्रसिद्ध इति ॥ सुरेंदेवे करे धृता दप्पण १ भद्दासण २ चंद्रमाण ३ वरकलस ४ मच्छ ५ सिरिवछ ६ सच्छिय ७ नंदावत्ता ८ कहिया अमंगलगा' एवंविधा आगमोक्ता अष्टमंगली अस्य भगवत पुरोगतामग्रेसरत्वं गताप्राप्ता । उत्प्रेक्ष्यते - इतीरयन्ती ईदृक् कथयन्तीव । इतीति किं किल इति सत्ये मङ्गलाख्यया एकोग्रह. प्रसिद्धो वर्तते परे आदित्याद्या अष्टावपि (वाष्टन आः स्यादौ १ । ४ । ५२ । इ. सू अष्ट शब्दस्य जसि परे आत्वं अष्टा जस् । अष्ट और्जस् शसोः । १ । ४ । ५३ । इ. सू जस औत्वे दौत् सन्ध्यक्षरै । १ । २ । १२ इ. सू औत्वे अष्टौ ) ग्रहास्ते ( युवर्णवृध्वशरणगमद्यह । ५ । ३ । २८ । इ. सू. धातोर्भावाकरल ग्रह : ) तव मंगलाय भवन्तु ॥ ५२ ॥ प्रबुद्धपद्मा न न नादिषट्पदा, उदारवृत्ताः सुरसार्थतोषिणः । पुरोऽस्य कल्याणगिरि स्थिता स्तुति - व्रतादधुनकतटाकसौहृदम् । ५३|
( व्या० ) प्रबुद्ध इति ॥ स्तुतिव्रता भट्ट । अस्य जिनस्य पुरोऽग्रे नाकतटाकसौहृदं नाकस्य तटाकानि सरोवराणि तेषां सौहृदं (शोभनं हृदयं यस्य सः सुहृत् सुहृद् दुर्हृन् मित्रामित्रे । ७ । ३ । १५७ । इ. सू. बहुव्रीहौ सुहृत् सुहृदः कर्म सौहृदं युवादेरण् । ७ । १ । ६७ । इ. सू. कर्मणि अणू 1 ) सादृश्यं तत्स्वर्ग - सत्कसरोवरसादृश्यं दधुर्धरन्ति स्म । किं लक्षणाः स्तुतित्रताः प्रबुद्धपद्मानननादिषट्पदाः प्रबुद्धेषु पद्मवत् आननेषु वदनेषु नदन्ति इत्येवं शीलाः शब्दायमानाः षट्पदाः छंदोविशेषा येषां ते । उदारवृत्ताः उदाराणि वृत्तानि कवित्वानि येषां