________________
१४६) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकतम् ॥ सर्गः ४
.. (व्या०) प्रकाशइति ॥ कः कृती कृतमनेनेति कृती (इष्टादेः । ७११ १६८ । इ. सू. कृतशब्दात् कर्तरि इनि) कुशल: वृताच्यादेवनर्तक्या नटने नृत्ये प्रकाशमुक्तात्र गसकुचत् मुक्तानां सज: मुक्तास्त्रज. प्रकाशाचताः मुक्तास्रजश्च ताभिरसंकुचत् प्रकटमुक्तामणिमालाभिरसंकुचत् । स्तनयोईयं युग्मं स्तनयुग्मं निरोक्ष्य दृष्ट्वा । जंभनिशुंभी इन्द्रस्तस्यकुंभिनो (अतोऽनकस्वरात । ७।२।६। इ. सू. कुंभगन्दात मत्वर्थे इन् । ) हरितन अतिगूढानि मौक्तिकानि ययोस्तौ तौ कुंभौ न अमर्सयत् न निन्दति स्म अपितु सर्व कोऽपि ॥ ४९ ॥ तिलोत्तमा निर्जरपुंजरंजनार्थिनी कलाकेलीगृहं ननर्त यत् । सुरैस्तदंगद्युतिरुद्धदृष्टिभिः, प्रभूवभूवे तदवेक्षणेऽपि न ॥ ५० ॥
(व्या०) तिलोत्तमेति ॥ तिलोत्तमा यत् ननर्त यत् नृत्यं चकार किं लक्षणा तिलोत्तमा निर्जरपुंजरंजनार्थिनी निर्जराणा देवानां पुज. समूह तस्य रंजने अर्थिनी कलानां केलीगृहं कलालीगृहं क्रीडास्थानं अत्र रूपकात् गृहशब्दस्य न स्त्रीत्वं । तदंगधुतिरुद्रदृष्टिभिः तस्यास्तिलोत्तमाया• अंगद्युति अंगकान्तिः तया रुद्रा घटयो लोचनानि येषां ते तैः सुरद वै. तदवेक्षणेऽपि तस्य नृत्यस्य अवेक्षणमालोकन तस्मिन्नपि न प्रभूबभूवे (कृस्वस्तिभ्यांकर्मकर्तभ्यांप्रागतत्तत्वे चि । ७ । २ । १२६ । इ. सू. भूधातुयोगे प्रभुशब्दात् प्रागभूत तद्भावे च्चिः । दीर्घश्वयङ्यक्येषु च । ४ । ३ । १०८ । इ. सू. प्वोपरे प्रभु. शब्दस्योकारस्य दीर्घ. 1) न समर्थीभूयते स्म ॥ ५० ॥ अचालिपुः केऽपि पदातयः प्रभोः, पुरो विकोशीकृतशस्त्रपाणयः । अमूमुहत्कि विवुधानपि भ्रमः, सजन्ययात्रेत्यभिधासमुद्भवः ॥५१॥
(व्या०) अचालिपुरिति ॥ केऽपि देवाः प्रभो स्वामिनः पुरोऽग्रे अचालिपुश्चलिताः किं लक्षणा सुराः विकोशीकृतशत्रपणियः विगतः कोशो येषां तानि विकोशानि न विकोशानि अविकोशानि अविकोशानि विकोशानि यथा संपद्यमानानि इति विकोशीकृतानि तानि चतानि शस्त्राणि च पाणौ येषां ते ('मुखादयः' । ३ । १ । २३ । इ. सू. व्यधिकरणबहुव्रीहि:) प्रत्याकार