________________
धीजैनकुमारसम्भवास्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ४ (१४५
स्त्रियां आपि त्रपा इति) लज्| न अपि तु स्यादेव । स्वकीयाः सारभूताः गुणाः यदि परहस्तगताः स्युः तदा कथं त्रपा न स्यादिति कर्भावः ॥ ४६ ।। मुदश्रुधारानिकरैर्घनायिते, धुसञ्चये कांचनरोचिरुवंशी । प्रणीतनृत्याकरणैरपप्रथ-तडिल्लताविभ्रममभ्रमंडले ॥ ४७ ॥
(व्या०) मुदश्रु इति । कांचनरोचि कांचनस्य रोचिरिब रोचिर्यस्था सा कांचनरोचि स्वर्णरुक । उर्वशी देवनर्तकी अभ्रमंडले अभ्राणां मंडलं तस्मिन् आकाशमंडले तडिल्लताविभ्रमं तडित् एव लता तडिलता तस्या विभ्रमस्तं विधुहल्लीनमं अपप्रथत् विस्तारयति स्म । किं लक्षणा उर्वशी करणैः प्रणीतनृत्या प्रणीतं रचितं नृत्यं (दुपान्त्यादपिचूदृचः । ५ । १ । ४१.। इ सू क्यपि नर्तितुं योग्यं नृत्य) नाटकं यया सा कृतनाटका । क सति अभ्रमंडले आकाशे धुसच्चये (किप। ५ । १ । १४८ । इ. सू. दिवशब्दे उपपदे सद्धातोः किम् ) दिवि सीदन्तीति द्युसदो देवान्तेषां चय समूहस्तस्मिन् देवसमूहे मुदश्रुधारानिकरै मुदो हर्षस्य अश्रूणि तेषा धारास्तासां निकरा. समूहा. हर्षाश्रुजलधारासमूहः धनायिते मेधवाचरिते सति ॥ ४७ ॥ विलग्नदेशस्तनुरुन्नतस्तन-द्वयातिभारव्यथितोऽस्य भाजि मा । घनांगहारोघविघूर्णितं वपु, विलोक्य रांभं त्रिशा इदं जगुः ॥४८॥ . (या०) विलनदेश इति ॥ त्रिदशा देवा (भं (तस्येदम् । ६ । ३ । १६० । इ सू रंभाप्दात् इदमर्थेऽण् । ) रंभाया इदं रामं तत् वपु शरीरं घनांगहारोचविधूर्णितं धनैर्बहुभि अंगहाराणा अंगविक्षेपाणां ओधै समहर्विघणितं भ्रामितं विलोक्य दृष्ट्वा इदं जगु । इढमिति किं अस्य वपुषो विलनदेश उदरप्रदेश तनु कृ२सन् उन्नतस्तनद्वयातिभारव्यथित स्तनयोईयं युगलं स्तनयं उन्नतं च तत् स्तनद्वयं च तस्यातिभारेण व्यथित उच्चस्तनयुग्मातिभारपीडितः मा भाजि मा भज्यताम् ॥ ४८ ॥ प्रकाशमुक्तास्त्रगसंकुचस्तन-द्वय घृताच्यानटने निरीक्ष्य कः । कृती न कुंभावतिगूढमौक्तिका-वभर्सयां भनिशुंभिकुभिनः ॥४९॥