________________
१४४) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ४
(०या०) समग्रेति ॥ लालनालतांतिफूलपडह इति । लोकोक्तपञ्चशब्दरूपस्य स्मरध्वजवजस्य स्मरथ्वजानां वादित्राणां व्रजः समूह: तस्य वादित्रसमूहस्य ध्वनिः शब्दः अम्बराध्वनि अम्बरस्य अध्वा तस्मिन् आकाशमार्गे स्वयं अवातमन्छ: अवामा प्राप्ता मूछना येन सः सन् प्रभौ श्रीऋषभदेवे मूर्छित कंदर्प उत्प्राबल्येन जीवयितुं कि क्षमः समर्थोऽस्तु अपि तु नैव । स्वयं प्राप्तमूछ कथमन्यं मूर्छित जीवयितुं समर्थ स्यात् । परं वादिनविशेषणे माशब्देन वृद्रिया। मूर्छित अचेतनं प्राप्तमिति एतावता वाघरवं श्रुत्वा भगवतो हृदि कामो नोत्पन्न इति भावः । किं लक्षणो ध्वनिः समनवाग्वैभववस्मरः वाचां वैभवः वाग्वैभवः सर्वश्चासौ 'वाग्वैभवश्च समजवावभवः तस्य धस्मरः (सधस्यदोभरक । ५। २ । ७३ । इ. सू. घस्धातोभरक) सर्ववचनविलासभक्षकः स्मरध्वजनजः स्मरस्य ध्वजाश्चिह्नानि वा तेषां व्रजः समूहः स्मरं जीवयितुमुपक्रमते परं स एव प्राप्तम ऽभूत् ततो मूर्छित स्मरं कथं जीवयितुं क्षमः स्यादिति व्यंग्यम् ॥ ४५ ॥ . • सुपर्वगंधर्षगणाद्गुणावली, पिबनिजामेव न सोऽतुपत्तराम् । अभूत्युनन्यङ्मुख एव दोष्मतां, नपा स्वकोशे परहस्तगे न किम् ।।
(व्या०) सुपर्व इति ॥ स भगवान् सुपर्वगंधर्वगणात् सुपर्वाणश्चगंधर्वाश्च सुपर्वगंधर्वाः तेषां गण समूहस्तस्मात् देवगन्धर्वसमूहात् निजी एव स्वीयां गुणावली गुणानामावली तामात्मीयामेव गुणश्रेणि पिबन् सन् न अतुषत्तराम (किन्न्याधेऽध्ययादसावे तपोरन्तस्याम् । ७ । ३ । ८ । इ. स. अतुपत् क्रिया पदात् तरप् । ततः तस्य: आमि अतुषत्तराम् वत्तस्याम् । १ । १ । ३४ । इ. स्. अतुषत्तराभित्यस्य अव्ययसंज्ञा ।) न अतिशयेन संतुष्टः । पिबन्निति अत्यादरात् श्रवणपानमुच्यते । पुनः परं न्यग्मुख एव अधोमुखएव अभूत् । दोष्मतां बलवता स्वकोशे स्वस्य कोशस्तस्मिन् आत्मीयमांडागारे परहस्तगे (नाम्नोगमः खड्डा च विहायसस्तुविहः । ५ । १।१३१ । इ. सू. गम्धातोः डः । डित्यन्त्यस्परादे इति अन्त्यस्वरादिलोपः ।) परस्यहस्तः परहस्तरतं गच्छतीति तस्मिन् अन्यहस्तगते सति किं त्रपा (पितोऽड् । ५ । ३ । १०७। इ. सू. त्रप्धातो: अड् आत् इ. सू.