________________
श्री जैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ४ (१४१
स्वामिन परीयु परिवनुः । किं लक्षणा सुरासुरा विमुक्तवैराः विमुक्तं वैरं यैस्ते परस्परं प्रीतिभाज: । मृदुतिग्मता जुष मृदु च तिग्मता च मृदुतिग्मते ते जुषन्ते सेवन्ते इति मृदुतिग्मताजुप सौकुमार्यतत्रत्वसेविन: । स्वोचितचिन्हमासुराः स्वस्य आत्मन' उचितानि योग्यानि च तानि चिह्नानि च 'चूडामणि फणिगरुडे वज्जे तह कलस सीह अस्सेय ' इत्यादि चिह्नानि लाञ्छनानि तैर्भासुराः (भञ्ज भासिमिदोधुरः | ५ | २ । ७ । इ सू भासूघातो. शीलादिसदर्थे धुरप्रत्यय) देदीप्यमाना । केइ गणिभास्वतो. शशी च भास्वांश्च शशिभास्वन्तौ (तदस्थास्त्यस्मिन्निति मतु' । ७ । २ । १ । इ. सू. भास् गब्दात् अस्त्यर्थे मतु' भावर्णान्तोपान्तापञ्चमवर्गान् मतोर्मोव । २ । १ । ९४ । इ. सू. भास्शब्दात् मतोर्मस्य वः ।) तयोः चन्द्रसूर्ययोः अंशव' किरणाः इव । शशिभास्वतोः किरणाः दिवो गोत्रं मेरुपर्वतं परियन्ति परिवृण्वन्ति किं विशिष्टं प्रभुं मेरुं च उदारनन्दनं उदारं नन्दनं समृद्धिकरं च मेरुपक्षे उदारं नंदनं वनं यस्य सः तं । शशिभास्वतोः कराअपि मृदुतिग्मताजुषो भवन्ति ॥ ३९ ॥
प्रभुः प्रतस्थेऽथ बुधे स्वधैर्यता, समेधयन् रक्तिविरक्तिसंशयम् । न मारतारुण्य विभुत्वयोगजा - मिमानघोरासवचूर्णिते क्षणः ॥ ४० ॥
( व्या० ) प्रभुरिति ॥ अथानंतर प्रभु श्री ऋषभदेव प्रतस्थे परिजेतुं ' चलित' किं कुर्वन् प्रभु. बुधे विदुषि स्वधैर्यंत स्वस्य धैर्यत आत्मीयधोरत्वात् रक्तिविरक्तिसंशयं रक्तिश्व विरक्तिश्व रक्तिविरक्ती तयोः पुन्नानि घः । ५ -३ - १३० इ. सू. संपूर्वकशीधातो. आधारे घः समन्तः शेते आत्मा अस्मिन् इति संग | (नामिनो गुणोऽति । ४-३ - १ । इ. सू. गुण' । एदैतोऽयाय् । १-२-२३ 'इ. सू. अयादेश: 1 ) रागवैराग्यसंदेहं समेधयन् (प्रयोक्तृव्यापारे णिम् । ३ । ४ । २० । इ. सू. संपूर्वकध्धातो प्रयोक्तव्यापारे णिग् शत्रानशावेिष्यति तु सस्यौ । ५ । २ । २० । इ. सू. शतृप्रत्यय . ) सामस्त्येन वर्द्धयन् । पुनश्च नमारतारुण्यविभुत्वयोगजाभिमानघोरासव घूर्णितेक्षण मारश्च तारुण्य च (पतिराजान्तगुणाङ्गराजादिम्य: कर्मणि च । ७ । १ । ६० । इ. सू. तरुणशब्दात्
"/
,