________________
१४२) श्रीजैनकुमारसम्भवात्यं महाकाव्यम् टीकासमलंहतम् ॥ सर्गः४
व्य तरुणस्य भावः तारुण्यम् ) विभुत्वं च प्रभुता मारतारुण्यविभुत्वानि तेषां योगात् जातः उत्पन्नः स चासौ अभिमानश्च स एव धोरः आसवः मदिरा तेन चूर्णिते चपले ईक्षणे नेत्रे यस्य सः स नभवतीति न चूर्णितलोचन इत्यर्थः ॥४०॥ अभाति लावण्यभरे स्वभावतोऽप्यनुष्यदेहे किमुतोत्सवे तदा । स्थितानुपृष्ठं लवणं सुरांगनो-चितं समुत्तारयति स काचन ॥ ४१ ॥
(व्या०) अमातीति ॥ काचन सुरांगना अनुपृष्ठं पृष्ठस्य पश्चात् अनुपृष्ठं पश्चादर्थे विभक्तिसमीपतिसूत्रेण अव्ययी भावः समासः भगवतोऽनुपश्चात् स्थिता सती लवणमुचितं योग्यं समुत्तास्यति स्म । (स्मेचवर्तमाना । ५ । २ । १६ । इ. सू. स्मयोगे भूते वर्तमाना) क सति अमुष्य भगवतोदेहे स्वभावतोऽपि (अहीयरुहोऽपादाने । ७।२ । ८८ । इ. सू. स्वभावशब्दात् पञ्चम्यर्थे तस्) स्वभावादपि लावण्यभरे लावण्यस्य भर समूहः लावण्यभरस्तस्मिन् अमाति सति नमातीति अमान् तस्मिन् । तदा उत्सवे किमुत किमुच्यते ॥ ४१ ॥ वरस्य दृष्टान्तयुतं पुरस्सरी, सुरीषु यं यं धवलै गुणं जगौ । न तत्र तत्र स्वमवेत्य किं शची, शुशोच हीनोपमयापराधिनम् ॥४२॥
(व्या०) वरस्येति ॥ शची इन्द्राणी सुरीषु देवीषु पुरस्सरी पुरः सरति इति पुरस्सरि (पुरोऽप्रतोऽग्रेसतः । ५ । १ । १४० । इ. सू. पुरः पूर्वक सरते: टः । अणजेयेकण न नटिताम् । २।४ । २० । इ. सू. त्रियां डोः।) अग्रेसरी सती वरस्य श्रीऋषभदेवस्य धवले: धवलमङ्गलः कल्पद्रुमकामधेनुचिन्तामणिकामकुंभप्रतिष्टान्तयुतं दृष्टान्ततः तं यं यं औदार्यधैर्यगांभीर्यमाधुर्यादिगुणं जगी गायति स्म । तत्र तत्र हीनोपमया होना चासौ उपमा च तया स्वं अपराधिनं अवेत्य ज्ञात्वा किं न शुशोच अपि तु शुशोच शोचति स्म ॥४२॥ फलानि यासामशनं शुभूहां, सुधारस पानविधिस्तदुवैः । उलूलगानः प्रमदः सुधाभुजा, भुजान्तरीयोऽपि मुमूर्छ कौतुकम् ॥४३॥
(न्या०) फलानीति ॥ यासां देवांगनानां घुभूरुहाणां दिवः भूरुहाः तेषां कल्पवृक्षाणां फलानि अशनं भोजनं वर्तते । यासां सुधारसः अमृतरस: