________________
१४०) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ४
सन् शरधनः (मूर्तिनिचिताभ्रे घनः । ५ । ३ । ३७ । इ. सू. हन्धातोः अल् प्रत्ययः धनादेशश्च निपात्यते) शरदः घन शकालमेघो यं भगवन्तं न्यवेवत सेवते स्म । सुवर्णदंडो विद्युत्सदृशः छत्रं च मेघसघशमिति । किं कर्तुं उत्प्रेक्ष्यते उदार्यतां उदार्यगुणमध्येतु शिक्षितुमिव । कि लक्षणः शरद्घनः जनलोकः अदाता न दाता अदाता कृपण इति जुगुप्सितो निन्दितो गर्हितः । 'गर्जति शरदि न वर्षति' इति वाक्यात् ॥ ३७॥ विहाय नूनं शशिनं कलंकिन, प्रकीर्णकछमधरः करोत्करः। शुचि बभाजोभयतस्तदाननं, विधुं विधाय प्रणति मुहुर्मुहुः ॥३८ ।।
(व्या०) विहायेति ॥ नूनं निश्चित कलंकिन (अतोऽनेकरवरात् । ७ । २। ६ । इ. सू. कलङ्कशब्दात् मत्वर्थ इन्) कलकोऽस्यास्तीति कलकी तं कलंकयुक्त शशिनं चन्द्रं विहाय त्यक्त्वा करोत्कर: कराणां किरणानामुत्करः समूह किरणसमूहः मुहुर्मुहुः वारंवार उभयत: (किमयादिसधिवैपुल्यबहोः पित् तस् । ७ । २ । ८९ । इ. सू. उभयशदात् पञ्चभ्यर्थे तस्) द्वयोः पाययोः प्रणति (स्त्रियां क्तिः । ५ । ३ । ९१ । इ. सू. प्रपूर्वकनम्धातो वे स्त्रियां तिः । यमिरमिनमिगमिहनिमनिवनतितनादेधु विक्ति । ४-२-५५ इ. सू. अनुनासिकलोपः । अदुरुपसर्गा-तरोणहिनुमीनाने । २ । ३ । ७७ । इ. सू. प्रपूर्वकनम्धातोकारस्य णत्वम्) प्रणाम विधाय कृत्वा शुचिं पवित्रं तदाननं तस्य भगवतः आननं वदनं विधुं चन्द्रं भगवन्मुखचन्द्र बभाज सेवते स्म । कि विशिष्टः करोत्कर' प्रकीर्णक अवरः प्रकीर्णकयोः चामरयोः छगं मिष धरतीति प्रकीर्णक अधर ॥ ३८ ॥ विमुक्तवैरा मृदुतिग्मताजुषः, सुरासुराः स्त्रोचितचिन्हमासुराः । प्रभु परीयुः शशिभास्वतोरिवां-शवो दिवो गोत्रमुदारनन्दनम् ॥३९॥
(च्या०) विमुक्तरा इति ॥ सुरासुरा सुराश्च असुराश्च सुरासुरा. (चार्थे इन्द्र सहोतो । ३ । १ । ११७ । इ. सू इतरेतरद्वन्द) देवदानवाः प्रभु (सम्वविप्राद् भुवो डुः । ५ । २ । ८४ । इ. सू. प्रभूर्वकभूधातोः डुः ।)