________________
श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंहतम् ॥ सर्गः ४ (१३९
उन्नताश्च ते स्तंभाश्च क्रमोन्नतस्तंभास्तेषां चतुष्टयन अंचितो युक्तः । किं कुर्वन् । पुरोऽग्रे शुभंयुकुंभद्वितयं शुभंयु (हिंशुममो युस् । ७।२।१७। इ. सू. शुभम्
अव्ययात् युस् प्रत्ययः ।) शुभसंयुक्तं च तत् कुंभयोतिय कुंमस्थलद्वितयं वहन् । जापाक्षकल्पश्रुतिः इधदसमाप्तौ गवाक्षौ इति गवाक्षकल्पे गवाक्ष-(गोर्नान्यवोऽक्षे। १-२-२८ । इ सू. गोशब्दस्य ओकारस्य अक्षे परे अव इत्यादेशे गवाक्षः ।) कल्पे (अतमबादेरीषदसमाप्ते कल्पप् देश्यप् देशीयर् । ७ । ३ । ११ । इ. सू. गवाक्षादात् इषदसमाप्तेऽर्थे कल्पप् प्रत्ययः) श्रुती कर्णौ यस्य सः गवाक्षसदृशकर्णः । अग्र्यदन्तकः अया. दंता एव दन्तका यस्य सः । सौधमपि कमेण उन्नत चतुष्टयांचितं स्यात् । पुरः कुंभद्वितयं कलशद्वितयं वहति च गवाक्षयुक्तं स्यात् । अग्र्याः प्रधाना दंतका घोटकाकारकाष्टानि यस्मिन् तत् एवंविधं च स्यात् । एवं हस्तिसौधयोः सादृश्यं ज्ञेयम् ॥ ३५ ॥ वृषध्वजेशानविभोः पविश्यते, सदासनं किं मम नो मनागपि । चटूक्तिमाद्यस्य हरेः प्रमाणय-निवेति तं वारणमारुरोह सः ॥३६॥
(40) वृषध्वजेति ॥ स भगवान् वारणं गजं आरुरोह चटितः किं कुर्वन् उत्प्रेक्ष्यते आधस्य हरे. सौधर्मेन्द्रस्य इति चटूति चाटुवचनं प्रमाणयन् इव प्रमाणं कुर्वन् इव । इतीति किं हे वृषध्वन वृषलांछन क्या ईशानविभोः ईशानस्य विभु. स्वामी तस्य ईशानेन्द्रस्य आसनं सदा निरंतरं पवित्र्यते पवित्री क्रियते । ममासनं मनागपि स्तोकमपि कि नो पवियते । ईशानेन्द्रस्य वाहन वृषभ भगवानपि वृषव्व(ज) इति भाव ॥ ३६॥ शरधनः काश्चनदंड पांडुरा-तपत्रदंभाचडिता कृताश्रयः । जनरदातेति जुगुप्सितो जिनं, न्यषेवताध्येतुमदारतामिव ॥ ३७॥
(०या०) शरद्धन इति ॥ काश्चनदंडपांडरातपत्रदभात् काश्चनस्य दंडो यस्य तत् काश्चनदंड एवंविधं पांडुरं च तत् आतपत्रं (आतपात् त्रायते इति आतपत्रं स्थापानात्रः कः । ५-१-१४२ । इ. स. आतपपूर्वकनाधातोः कः) च श्वेतच्छनं तस्य दंभात् मिषातू तडिता विधुता कृताश्रयः कृतः आश्रयो यस्य सः