________________
१३८) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीफसमलंकृतम् ॥ सर्गः ४
( व्या० ) अथेति । अथानन्तरं पुरन्दरः ( पुरन्दर भगन्दरौ । ५ । १ । ११४ । इ. सू. खान्तो निपातः । ) इन्द्रः तस्य भगवतः पुरः अग्रे अमूपतिं अभ्रवाः पतिस्तं ऐरावणं हस्तिनमानयत् । किं विशिष्टं अभ्रभूपतिं कृताचलेन्द्रभ्रमं कृत' अचलेन्द्रस्य हिमाचलस्य भ्रमो येन स कृताचलेन्द्रभ्रमस्तं श्वेतवर्णत्वात् । यमी यमुनानदी कं पुरुषं न व्यसिस्मयत् कं न विस्मापयति स्म अपि तु सर्वमेव । किं विशिष्टा यमी यत्कटकात् यस्य कटकं यत्कटकं तस्मात् यत्कपोलात् । पक्षे कटकात् पर्वतमध्यप्रदेशात् क्षरद्भिः मदाम्बुभिः मदस्य अम्बूनि तैः मदजलैः आ सामस्त्येन बद्ध' जवो यया सा आबद्धजवा । हिमवतो गंगा प्रभवति न तु यमुना इत्याश्चर्यम् ॥ ३३ ॥ अगुप्तसप्तांगतया प्रतिष्ठित - स्तरोनिधिर्दानविधिस्फुरत्करः । प्रगूढचारः सकलेभराजतां, दधौ य आत्मन्यपरापराजिताम् ॥३४॥
·
( व्या० ) अगुप्तेति । य ऐरावण' आत्मनि विषये अपरापराजितां अपरे अन्यैः अपराजितां अनर्जितां सकलेभराजतां सकलाश्च ते इभाश्च सकलेमा तेषु राजतां समस्तहस्तिराजत्वं दधौ । किं लक्षणो राजा च अगुप्तसप्तांगतथा अगुप्तानि प्रकटानि शुंडा पुच्छं मेढं पादाश्च सप्तांगानि पक्षे स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्ग - लानि चेति सप्तराज्यागानि तद्भावेन प्रतिष्ठितः । पुन: तरोनिधिः तरस: निधिः तरोनिधिः तरो वेग' पक्षे बलं । पुनः किं वि० दानविधिस्फुरत्करः दानं मदजलं तस्य विधौ स्फुरन् करः शुंडादंडो यस्य सः पक्षे दानं वितरणं तस्य विधौ स्फुरन् करो हस्तो यस्य सः । पुनः किं वि० प्रगूढचार प्रगूढ: चारो गतिर्यस्य सः पक्षे प्रगूढा' चारा चरपुरुषा यस्य स ॥ ३४ ॥
क्रमोन्नतस्तंभचतुष्टयांचितः, शुभंयुकुंभद्वितयं वहन् पुरः । गवाक्षकल्पश्रुतिरग्र्यदन्तको, जगाम यो जंगमसौधतां श्रिया ||३५||
( व्या० ) क्रमोन्न इति । य ऐरावणः श्रिया लदग्या जंगमसौधतां जंगमं च तत् सौधं च जंगमसौधं तस्य भावो जगमसोघता तां चलदावासत्वं जगाम । किं विशिष्ट ऐरावणः सौधं च क्रमोन्नतस्तंभचतुष्टयांचितः क्रमाश्चरणाः एव