________________
श्रीजैनकुमारसम्भवाख्य महाकाव्यम् टीफसमलंकृतम् ॥ सगः ४ (१३७
विपूर्वककस्धातो. । शीलेऽर्थे वर ) कमले यथा विहंग्य : (नाम्नो गमः खड्डौ च विहायसस्तु विहः । ५- १ - १३१ । इ. सू. गधातो: खड् विहायसस्तु विहः डित्यन्त्यस्वरादेः इ. सू. अम्लोप: । धवाद्योगादपालकान्तात् । २ । ४ । ५९ । इ. सू. पुंयोगात् स्त्रियां डी विहायसा गच्छन्तीति विहङ्गा : विहङ्गानां भार्याः विहङ्गय' पक्षिण्य' फलिते महीरुहे वृक्षे निपतन्ति । पूर्ववृत्ते भूषणानां दूषणत्वमारोपितम् अत्र तु भूषणकृता शोभा आरोपिता । परं विचित्रा कविव्यावर्णना । यथा भक्तामरस्तवे 'वक्त्रं कते' इति वृत्ते चन्द्रबिंबस्य निन्दाकृता । 'नित्योदयम्' इति वृत्ते पुनरपि चन्द बिम्बोपमा आरोपिता ॥ ३१ ॥
हिरण्यमुक्तामणिभिर्निजश्रिय - चिराच्चितायाः फलिनत्वमाप्यत । अलंकृते नेतार नाकिनां करैः, प्रसाधनाकर्मणि कौशलस्य च ॥ ३२ ॥
(०या० ) हिरण्येति ॥ नेतरि ( णकतृचौ । ५ । १ । ४८ । इ. सू. नीधातो. कर्तरि तृच् प्रत्ययः, नामिनो गुणोऽक्ङिति । ४ । ३ । १ । इ. सू. गुणः ) स्वामिनि अलंकृते सति हिरण्यमुक्तामणिभिः हिरण्यानि सुवर्णानि मुक्ताश्च मणयश्च (चार्थे द्वन्द्व सहोकौ । ३ । १ । ११७ | इ. सू. इतरेतरद्वन्द्व) तै चिरात् चितायाः संचितायाः निजस्य श्रीः तस्याः निजश्रियः फलिनत्वं सफलव्वमाप्यत प्राप्तम् । यद्गृहे सुवर्णमुक्तामणयः स्यु' तत्रैव लक्ष्मीर्वसतीति प्रसिद्धि तेषु एव लक्ष्मीवास इति भाव: । च अन्यत् नाकिनां नाकोऽस्ति एषामिति तेषां 'नखादयः' इति सूत्रेण नाक इत्यत्र नकारो निपात्यते नखादित्वात्, नाकिनां देवानां करैर्हस्तैः प्रसाधनाकर्मणि प्रसाधनायाः (णिवेच्या सश्रन्थ वन्दे - रन' । ५ । ३ । १११ । इ. सू. साधि धातोरन' आत् इ सू. आप् ) कर्म तस्मिन् मंडनविधौ कौशलस्य ( युवादेरण । ७ । १ । ६७ । इ. सू. कुशल शब्दात् भावे अणू कुशलस्य भावः कौशलम् ) फलिनत्वं फलवत्त्वं प्राप्तम् ॥३२॥
अथानयत्तस्थ पुरः पुरन्दरः, कृताचलेन्द्र भ्रममभ्रमुपतिम् । व्यसिस्मयद्यत्कटकान्मदाम्बुभिः क्षरद्धिराद्धजवा यमी न कम् ३३ ॥