________________
१३४) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्ग: ४
फलं जने लोके उक्त कथितम् । इतीति किं इहलोके रविद्वये सूर्यद्विके ईक्षिते दृष्टे सति वज्रिणामपि इन्द्राणामपि श्री : लक्ष्मीः क्षता क्षयगता । सूर्यवये चन्द्रद्वये दृष्टे राज्ञां नृपाणामुत्पातः स्यादितिभावः ॥ २५ ॥
उदारमुक्तास्पद मुल्लसद्गुणा, समुज्ज्वला ज्योतिरुपेयुषी परम् । तदा तदीये हृदि वासमासदद्, व्रतेऽक्षरश्रीरिव हारवल्लरी ॥ २६ ॥
( व्या० ) उदार इति ॥ तदा तस्मिन्नवसरे हारवल्लरी तदीये तस्य भगवत इदं तस्मिन् हृदि हृदये वासमासदत् प्राप्ता । केव अक्षरश्रीरिव मोक्षलक्ष्मीरिव । यथा अक्षरश्रीः व्रते दीक्षायां सत्यां तदीये हृदि वासमासादयति । सिद्धिमिच्छन्ति योगिनः इति भाव. । किं विशिष्टा हारवल्लरी उदारमुक्तास्पदं उदाराश्च ताः मुक्ताश्च मौक्तिकानि तासामास्पदं स्थानं उल्लसद् गुणा उल्लसन् गुणो दवरको यस्या' सा समुज्ज्वला निर्मला परं प्रकृष्टं ज्योति' तेज उपेयुषी (वेयिचंदनाश्वदनूचानम् । ५ । २ । ३ । इ. सू. उपपूर्वक इधातोः परोक्षाविषये कसु प्रत्ययः । अधातूदित । २ । ४ । २ । इ सू डी । कलुष्मतौ च । २ । १ । १०५ । इ. सू. कस उष् । उपेयाय इति उपेयुषी ) प्राप्ता । अक्ष- रश्रीः किं लक्षणात् उई आरोगमनं येषां ते उदाराः सिद्धाः उदाराश्च ते मुक्ताश्च सिद्धाः तेषामास्पदं स्थानं । उल्लसन्तः गुणा ज्ञानदर्शनादयो यस्यां सा । परंज्योतिः परब्रह्मसत्कं तेजः प्राप्ता समुज्वला च ॥ २६ ॥ जगत्त्रयीरक्षणदीक्षितौ क्षितौ, भुजौ तदीयाविति न नेष्यते । अवाप हेमा पटुसंज्ञमप्यहो, यदंगदत्वं तदुपासनाफलम् ॥ २७ ॥
( व्या० ) जगदिति ॥ केन पुंसा इति न इष्यते न मन्यते अपि सर्वेणापि इतीति किं क्षितौ पृथिव्यां तदीयौ तस्य भगवतः इमौ भुजौ हस्तौ जगत्त्रयीरक्षणदीक्षितौ जगतां त्रयी तस्या रक्षणं तस्मिन् दीक्षितौ (तदस्य सज्जातं तारकादिभ्य इतृ. । ७ । १ । १३८ । इ. सू. दीक्षा शब्दात् संजातेऽर्थे इतप्रत्यय अवर्णेवर्णस्य । ७ । ४ । ६८ । इ. सू. आलोपः 1) लक्षणया रक्ष