________________
श्रीजैनकुमारसम्भवास्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ४ (१३३
मस्तकेपदं स्थानं यस्य तं पुन: पुण्यजनोचितं पुण्या पवित्राः ये जनास्तेषामुचितं योन्य पक्षे पुण्यजना राक्षसास्तेषामुचितं योग्यम् । यथा प्रबाहणिको लोको लंकासमीपे त्रिकूट पर्वतं पश्यति तथा भगवतः शिरसि मुकुटं दृष्टवान् । अत्र मुकुटः त्रिकूटयो. साम्यं मुकुटश दो नपुंसकेऽप्यस्ति ॥ २३ ॥ ललाटपट्टेऽस्य पृथौ ललाटिका-निविष्टमुक्तामिषतोऽक्षराणि किम् । पतिवरे पाठयितुं रतिश्रुति, लिलेख लेखप्रभुपंडितः स्वयम् ॥ २४ ॥
(व्या०) ललाट इति ॥ लेखप्रभुपंडित. लेखाः देवाः तेषां प्रभुः स्वामी इन्द्रः स एव पंडित' इन्द्रः । पक्षे लिखन लेख तद्विषये प्रभुः समर्थः एवंविधपंडितः पृथौ पिरतीणे ललाटपट्टे भाले ललाटिकानिविष्टमुक्तामिषतः ललाटिका (कर्णललाटात् कन् । ६ । ३ । ४१ । इ, सू ललाटशब्दात् भवाथै कल् । अस्या यत्तत् क्षिपकादीनाम् । २ । ४ । १११ । इ. सू. अस्य इ: । ललाटे भवति ललाटिका) ललाटाभरणं तस्यां निविष्टा स्थापिताः मुक्ता मौक्तिकानि तासां मिपात् स्वयं कि अक्षराणि लिलेख । अन्योऽपि पंडित: पट्टके लिखित्वा । पाठयति किं कर्तुं पतिवरे (भृवृजितृतपदमेश्च नाम्नि । ५-१-११२ । इ. सू. पतिकर्मपूर्वकवृधातोः खप्रत्ययः खित्यनव्ययाऽरुषोर्मोऽन्तोह्रस्वश्च । ३ । २ । १११ । इ. सू मोन्तः पतिं वृणीतः इति पतिवरे । ) सुमंगलासुनन्द रतिश्रुति पाठयितुम् ॥ २४ ॥ उदित्वरं कुंडलकैतवादवि-द्वयं विदित्वा परितस्तदाननम् । क्षतेक्षिते श्रीरिह वषिणामपी-त्यजन्यजन्य विबुधैः फलंजगे ॥२५॥
(व्या०) उदित्वरमिति ॥ विबुधैर्दा तदाननं तस्य भगवत् आननं मुख परितः कुंडलकतवात् कुंडलयोः फैतवं तस्मात् कुंडलमिषात् उदित्वरं (सृजीनशष्ट्वरप् । ५ । २ । ७७ । इ. सू. उत्पूर्वकइधातोः ट्वरप् प्रत्यय हस्वस्य तः पिकृति इ. सू त । उदेति इत्येवंशीलं उदित्वरम् ) उदयनशीलं रविद्वयं सूर्यद्वयं विदित्वा ज्ञात्वा इति अजन्यजन्यं अजन्येन उत्पातेन जन्यं जनितं
-
--