________________
१३२) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टोकासमलंकृतम् ॥ सर्गः ४
वासयितुं प्रयेतिरे उपक्रान्ताः । ते कचा. अमीषु जलकेतकादिषु प्रत्युत विशेषतः सौरभश्रियं सौरभस्य श्रीस्तां न्यधुः (कर्तरि अद्यतनी ।) निक्षिप्तवन्त । हि निश्चित महतां महापुरुषाणां संगतिः मोधानिष्फला न वर्तते । भगवतो देहस्य जन्मप्रभृति स्वभावतः सुगंधत्वात् केशादिवासनं देवैव्यवहारार्थमेव कृतम् ॥ २१ ॥ पिनद्धकोटीरकुटीरहीरक-प्रभास्य मौलेरुपरि प्रसृत्वरि । प्रतापमेदस्त्रिमदां विवस्वतो--ऽभिषेणयन्तीवकरावली बभौ ॥२२॥
(व्या०) पिनद्रेति । पिनद्धो (वावाप्योस्तनिक्रोधाग्नहोर्वपी । ३-२ १५६ । इ. सू. अपि स्थाने पिः) बद्धः कोटीरोमुकुटः स एव कुटीरं स्थान तस्मिन् ये हीरकास्तेषां प्रभा । अस्य भगवतो मौलेमस्तकस्य उपरि प्रसृत्वरी (सृजीन राष्ट्रप् । ५ । २ । ७७ । इ. सू. प्रपूर्वकसूधातोः ट्वरप् । हस्तस्य तः पित्कृति इ. सू. तोन्तः । अणयेकण्ननटिताम् । २ । ४ । २० । इ. सू. प्रसत्वरशदात् की ।) प्रसरणशीला सती बभौ शोभिता । किं कुर्वती उप्रेक्ष्यते । प्रतापमेदस्विमदा प्रतापेनमेदस्वीमदो यस्याः सा तां प्रतापस्थूलमदा विवस्तः सूर्यस्य करावली कराणामावली ता किरणश्रेणिं अभिषेणयन्ती इव सेनया भभि सन्मुख यान्तीव ॥ २२ ॥ सनिष्कलंकानुचरः प्रभार्णवं, विगाह्य नावेव दृशा तदाननम् । शिरःपदं पुण्यजनोचितं जनो, ददर्श दूरान्मुकुट त्रिकूटवत् ॥ २३ ॥
(या०) स इति ॥ जनोलोकः त्रिकूटवत् शिखरत्रययुक्तं पक्षे त्रिकूटनामा पर्वतस्तद्वत् त्रीणि कूटानि शिखराणि यस्य स तमिव मुकुटं दूरात् ददर्श । किं विशिष्टोजन. स निष्कलंकानुचरः निर्गतः फलकः येभ्यस्तै निष्कलंका. ते च ते अनुचराश्च निष्कलंकानुचराः निर्दोषानुचरास्त. सहवर्तते इति सनिकलंकानुचर: पक्षे निष्कं सुवर्ण तेन सह वर्तते यथा यां तां लंकामनुचरतीति । किं कृत्वा प्रभार्णवं प्रभाया. अर्णवं समुद्रं तदाननं तस्य भगवत· आननं मुखं तत नावा इव बेडिकया इस दशा दष्टया विगाह्य किं विशिष्टं मुकुट शिरःपदं शिरसि