________________
श्रीजैनकुमारसम्भवास्यं महाव्यम् टीकासमलंकतम् ॥ सर्गः ४ (१३१
महेशितुः सद्गुणशालिनो ष-ध्वजस्य मौलिस्थितितोऽधिकं बभुः । अमुष्य सर्वांगमुपेत्य संगम, विशुद्धवस्त्रच्छलगावीचयः ॥ २० ॥
(व्या०) महेशितुः ।। विशुद्रवस्त्रच्छलगाझवीचयः विशुद्धं निर्मल च तत् वस्त्रं च तस्यच्छलेन गंगाया इमे गांगागाः (तस्येदम् । ६-३-१६० । इ. सू. गङ्गादात् अण) च ता पीचयश्च कल्लोलाः अमुष्य भगवत सर्वाग संगम उपत्य प्राप्य मौलिस्थितितः मौलौ स्थितितः मस्तकस्थिते. अधिकं बभु. शोभिता । कि लक्षणस्य भगवत· महेशितु महांश्चासौ ईशिता च महेशिता तस्य । (विशेषणं विशेष्यणैकार्थ कर्मधारयश्च । ३ । १ । ९६ । इ सू. कर्मधारयसमासः) सद्गणशालिनः सतां गणा समूहा तैः शालते सद्गणशाली (अजाते शीले । ५ । १ । १५४ । इ. सू. शोलेऽर्थे शालधातोः णिन् प्रत्ययः ।) तस्य ५ध्वजस्य (उष्टमुखादयः । ३-१-२३ । इ. सू व्यधिकरणबहुव्रीहि वृषोध्वजे यस्य सः वृषध्वज ।) वृधलाञ्छनस्य पक्षे महेशितु ईश्वरस्य सद्गणशालिनः सन्तोविधमाना नन्ति चन्दिप्रमुखारणास्तै. शालिनः ईश्वरपणाश्चामी । तद्यथा'महाकाल, पुनर्वाणो बनबाहु वृषाणकः वीरभद्रस्तु धीराजोहेरकस्तु कृतालकः ॥१॥ अथ चंडोमहाचंड: कुशीडीककणप्रियः । मजनोऽमजनो छागः छागमोधो महानसः ॥ २ ॥ महाकालकामपालौ संतापनविलेपनौ। महाकपोल: येलोज: शंखर्णश्च शस्तपः ॥ ३ ॥ उक्कामालीमहाजंभ. श्वेतपादः खरांडकः गोपालीप्रामणीटाकर्णकर्णकराध्वमौ ॥ ४ ॥ एभिर्गण. शोभमानस्य ईश्वरस्थ शिरसि गङ्गाकल्लोलाः स्युः । अत्र तु सर्वांगे वस्त्र लगङ्गाकल्लोला अभूपन्निति विशेषः ॥
कचान् विभोर्वासयितुं सुगंधयः, प्रयेतिरे ये जलकेतकादयः । अमीषु ते प्रत्युत सौरभश्रियं, न्यधुर्नमोघा महतां हि सङ्गतिः॥२१॥
(व्या०) कचानिति ॥ जलशब्देन पालकः केतकादयश्च ये सुगंधयः शोभनोगन्धो येषां ते सुगन्धयः (सुपूत्युत्सुर मेधादिद्गुणे । ७-३-१४४ । इ. स. सुपूर्वकग-धशब्दात् इत् ।) पदार्थाः विभोः स्वामिनः कचान् केशान्