________________
१३०) श्रीजैनकुमारसम्भवाण्यं माकाव्यम् टीपासमशतम् ॥ सर्गः ४
त्मनेपदम् । किं विशिष्टः सः, सुवस्त्रशान्तोदकले पभासुर: शोभनं वस्त्रं सुवस्त्रं (सुः पूजायाम् । ३ । १ । ४४ । इ. सू. तत्पुरुषसमासः) तेन शान्तो य उदकस्य जलस्य लेपस्तेन भासुरो (भजि भासिमिदोवुरः । ५-२-७४ । इ. सू. भासूधातो: शीलादिसदर्थे धुरप्रत्ययः ।) देदीप्यमानः । समंतत. सर्वतः संगतं मिलितं दिव्यचन्दन गोशीर्षचन्दनं यस्य सः । किं विशिष्टं मेरोः कटकं घनाव्ययोद्वान्तजलं घनात्यये शरत्काले उद्दान्तं शुप्कं जलं यस्य तत् ॥ १७ ॥
अमुं पृथिव्यामुदितंसुरद्रुमं, निरीक्ष्यहृन्मूनि सुमांचितंसुराः। जगत्प्रियं पुत्रफलोदयं वयः, क्रमादवोचभचिरेण भाविनम् ॥ १७॥
(व्या०) अमुमिति ।। सुराः देवाः अमुं भगवन्तं पृथिव्यां उदितं सुरद्रुमं कल्पवृक्षं निरीक्ष्य दृष्ट्वा वय.क्रमात् वयसः क्रमः तस्मात् पट्लक्षपूर्वानन्तरं अचिरेण स्तोककालेन भाविनं (वस्यति गम्यादि ।५ । ३ । १ । इ. सू. भूधातोर्भविष्यथै णिन् ।) भविष्यन्तं पुत्रफलोदयं पुत्र एव फलस्य उदयो यस्य तं अबोचन् । किं लक्षणममुं हृन्मूर्ति हृदयं च मूर्धा च एतयोः समाहार हन्मूर्ध तस्मिन् हृदये मस्तके सुमांचितं सुमैः (कारकं कृता । ३ । १ । ६८ । इ. सू. तृतीया तत्पुरुषः । ) मंदारहरिचन्दनपारिजातादिकुसुमैः अंचितं पूजितं हन्मुनि इति 'प्राणितूर्योगाणां' इति सूत्रेण एकत्वं ज्ञेयम् । अत्र जगत्प्रियं जगतः प्रियस्त विश्वाभीष्टम् ॥ १८ ॥ अदाकचश्वोतनवारिविपुषो, निपीययैश्वातकितं तदामरैः । सतः परं तेषु गतं सुधावधि, पविकक्रियामेव ययौ रसान्तरम् ॥१९॥
(व्या०) मद इति । तदा तस्मिन्नवसरे यैरमर देवैः अद: कचश्चोतनवारिविध्रुषः अमुष्य भगवतः कचा:केशाः तेषां श्चोतनं क्षरणं तस्मिन् वारिणो विग्रुषः जलबिन्दून् निपीय पीत्वा चातकित पप्पीहवदाचरितम् । ततपरं तेषु अमरेषु सुधावधि अमृतावधि रसान्तरमपरोरस' स्वकीयां धिक्कक्रियां निन्दामेव ययो प्राप ॥ १९ ॥