________________
श्रीजैनमारसम्भवायं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ४ (१२९
अकृत्रिमं ज्योतिः यस्य सः तस्य सूर्यस्य अमित्रं विरोधिनी न स्यात् अपि तु स्यादेव कोऽर्थः भगवत शरीरे यत् मुख्यं तेज ततैलाभ्यंगेन आवृतमभूत् । पिष्टातस्तले गोषित तत् प्रकटं ज्ञातमिति भावः ॥ १५ ॥
जलानि यां स्नानविधी प्रपेदिरे, पवित्रतां तद्विशदांगसंगतः । तयैव तैरादरसंगृहीतया-धुनापि विश्वं पवितुं प्रभूयते ॥ १६ ॥
(व्या०) जलानीतिः ॥ जलानि पानीयानि स्नानविधौ स्नानस्य विधिः (विधीयते अनिन इति विधि उपसर्गात् दः किः । ५ । ३ । ८७ । इ. सू. विपूर्वकधाधातो किः । इडेत् पुसि चातोक् इ. सू. आकारलोपः ) तस्मिन् स्नाने कार्यमाणे तद्विशदांगसंगतः तस्य भगवतो विशदं निर्मलं यदंग तस्य संगत• भगवनिर्मलांगसंसर्गात् पवित्रता प्रपेदिरे प्रपन्नानि । आदरसंगृहीतया आदरेण (युवर्णवशरणगमृद्ग्रह । ५-३-२८ । इ. सू. आपूर्वक वातोः अल् प्रत्ययः । नामिनोगुणोऽकिति । ४ । ३ । १ । इ सू. गुणे आदरः ।) संगृहीतया तयैव पवित्रतया तेजलैरधुनापि विश्वं जगत् पवितुं पवित्रीकर्तु प्रभूयते (शसस्वयंविप्रागुवोडुः । ५।२। ८४ । इ. सू. अपूर्वकभूधातोःडुः डित्यन्तस्वरादे । २-१-११४ । इ. सू. अन्त्यस्वरादेलोप: क्यड् । ३-४-२६ । इ. सू प्रभुशब्दात् आचारेऽथैक्यड दीर्घश्चियड्यथेषु च । ४ । ३ । १०८ । इ. सू. दीर्घः । इडितः कर्तरि । ३ । ३ । २२ । इ. सू. क्यडोडित्वात् आत्मनेपदम् । प्रभुरिव आचरति इति प्रभयते) समर्थायते ॥ १६ ॥
मुवस्त्रशान्तोदकलेपभासुरः, समंततः संगतदिव्यचन्दनः । घनात्ययोदगतजलंमरुद्रेिः , सिताम्रलिप्तं कटकं व्यजेष्ट सः ॥१७॥
(व्या०) सुवस्त्रेति ॥ स भगवान् मरुद्रेि मेरुपर्वतस्य सिताम्रलिप्त सितानि च तानि अभ्राणि च तैलिप्त श्वेताम्रलिप्तं शररकाले मेघानां श्वेतत्वात् कटक शिखरं व्यजेष्ट जितवान् । विपूर्वकाजधातोः 'परावेजेः' इति सूत्रेणा