________________
१२८) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम टीकासमलटतम ॥ सर्गः ४
स्य अन्त्यस्वरादेलोपः ।) अत्यंत महती देवता प्रतिभाति देवतावन्मान्या देवता च कथं चरणैः स्पृश्या इति ॥ १३ ॥ मुहूर्तमासीदति किं विडोजसां, प्रमादितत्युगिरि नाकिमंडले । विमानमानज तमंज पावरं, वरेण्यतैलैः प्रथमः पुरन्दरः ॥ १४ ॥
(व्या०) मुहूर्तमिति ।। प्रथम पुरन्दर (पुरन्दरमगन्दगे । ५ । १ । ११४ । इ. स. निपात्यते) पुर. शत्रुपुगणि दाय्यतीति पुरन्दर इन्द्र चण्यनैलै वरेण्यानि (वृड एण्यः । ३८२ । इ. उ. सू. पृड्धातो एण्यप्रत्ययः) च तानि तैलानि च तैः प्रशस्य तैलेस्तं वरं श्रीऋपमं अंजसा सामन्येन विमानं निरहंकार यथा भवति तथा आनज अभ्यनक्ति स्म । क सति नाकिमंडले नाकिनां मंडलं तस्मिन् देवसमूहे इति उनिगरि उद्तवाचि सति इतीति किं मुहूर्तमासीदति आसन्न भवति । बिडौजसामिद्राणां किं प्रमादिता प्रमादकारिता ॥ १४ ॥
तनूस्तदीया पटवासकैरभा-द्विशेषतः शोषिततैलतांडवा । अकृत्रिमज्योतिरमित्रमत्र न, स्निहिक्रिया स्वाद् बहिरंगगापि किम् ॥
(व्या०) तनूरिति ॥ तदीया तस्य इयं तनू स्वामिनः शरीरं पटवासकै पिष्टात शोषिततैलतांडवा सती शोषित तैलस्य तांडवं नृत्यं यस्यां सा एवंविधा सती विशेषतः (अहीयरहोऽपादाने | ७ । २ । ८८ । इ. स. पश्चम्यर्थे विशेषशब्दात् तसुप्रत्ययः ।) अभात् दिदीपे । अत्र (ककुत्रानेह । ७ । २ । ९३ । इ स. अत्र इति निपात्यते) अस्मिन् भगवति बहिरंगगापि (नानो गमः खड्डौ च विहायसस्तु विह । ५। १ । १३१ । इ. स. बहिरंगशब्दपूर्वक गम्धातोर्ड प्रत्ययः ।) बाह्यशरीरस्थापि निहिक्रिया (कृग श च वा। ५ । ३ । १०० । इ. स. कृधातो. भावे शप्रत्यये । रि क्याशीय । ४ । ३ । ११० । इ. सू कारस्य रि । धातोरिवोवर्णस्येयुव् स्वरे प्रत्यये । इ. सू. इयादेशः, आत् इ. सू आप् ।) किं अकृत्रिम-(ड्वितस्त्रिमा तत्कृतम् । ५ । ३ ८४ । इ. सू. कृधातो. तेन कृतमित्यर्थे त्रिमा प्रत्ययः ।) ज्योतिषः