________________
श्रीजनमारसम्भवाय महाव्यम् टीकासमलंकृतम् ॥ सर्गः ४ (१२७
(व्या०) पुरस्सरीभूयेति ॥ केऽपि देवाः इति श्रुतिं वृथैव मेनिरे । इतीतिकिं वशा. स्त्रियः पथि मार्गे विगां पुरुषाणां पादखला. पादवन्धनानि स्युः फासु सतीषु अमरीषु देवीषु मनाक् स्तोकं प्रमादिनं वल्लभं भर्तार पुरस्सरीमय (पुगेऽप्रतोऽग्रे सते: । ५ । १ । १४१ । इ. सू. पुरस्पूर्वक सृधातो. टात्ययः अगओयेकनबनन्टिताम् । २ । ४ । २० । इ. सू. डी पुर: सरन्ति इति पुर सर्य) अग्रे भूत्वा कृपन्तीषु बलादाकर्षन्तीषु सतीषु ॥ ११ ॥ दिवो भुवश्चान्तग्लंगतागते-रवाहि योऽध्या त्रिदशैरनेकशः। धुदंडकत्वेन स एव विश्रुतः, प्रपद्यतेऽधापि नभोऽधिसेतुताम् ॥१२॥
(40) दिव इति ॥ त्रिदशैर्देवैः दिव स्वर्गस्य भुवश्च पृथिव्याश्च अन्तमध्ये अलमत्यर्थ गतागत गतानि च आगतानि च तै गमनागमनै योऽध्या मार्गोऽनेका ( संख्यैकार्थानाप्सायां शस् । ७ । २ । १५१ । इ. सू. वीप्सार्थात् अनेकान्दात् गस् प्रत्यय ) अनेकवारान् अवाहि वाहित स एवं अभ्या मार्ग द्युदंडकत्वेन विश्रुत. विख्यात सन् अद्यापि नभोऽब्धिसेतुतां नमः आकाशमेव अब्धि (आपः धीयन्ते अस्मिन् इति अब्धि , व्याप्यादाधारे । ५। ३। ८८ । इ सू. अप्पूर्वकधाधातो. कि । इडेत् पुसि चातो लक। इ सू. आलोपः) समुद्र तस्य सेतुतां आकाशसमुद्रसेतुबंधत्वं प्रपद्यते ॥ १२ ॥ जनिर्जिनस्याजनि यत्र सा मही, महीयसी नः प्रतिभाति देवता । इतीव देवा भुवमागता अपि, क्रमैन संपस्पृशुरेव तां निजैः ॥१३॥
(व्या०) जनिरिति ॥ देवा भुवं पृथ्वोमागता अपि निजै. क्रमे पदे: स्वां भुवं न संपस्पृशुरेव नैव स्पृष्टवन्तः । उत्प्रेक्षते इतीव इतीति किं यत्र यस्यां पृथिव्यां जिनस्य श्रीऋषभदेवस्य । जनिः (पदिपठिपचिस्थलिहलिकलिबलि-भ्य. । ६०७ । इ. उ. स. जन्धातोरिप्रत्ययः ।) जन्म अजनि जाता । सा महो पृथ्वी नोऽस्माकं महीयसी (गुणागाद्वष्ठेयसू । ७ । ३ । ९ । इ. सू महाशब्दात् ईयसुः । त्र्य-तस्परादेः । ७ । ४ । ४३ । इ. सू. महत्शद