________________
१२६) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ४
कटीपश्चाद्भागः स्तनौ च एषां समाहार नितम्बस्तनं ( प्राणितुर्याङ्गाणाम् । ३ । १ । १३७ । इ. सू. समाहार द्वन्द्व | ) प्राण्यं गत्वादेकवद्भाव तस्य भारः तस्य गौरवं प्रयाणे मार्गे भुवि पृथ्यां विघ्नकृत् विघ्नं करोतीति भवेत् । तु पुनः सुपर्वयौवतै युवतीनां समूहा यौवतानि (१४चाः समूहे । ६-२-९ । इ. सू. समूहे ऽर्थे युवतिशब्दात् अण् ) सुपर्वणां यौवतानि तै देवयुवतीसमृहैः अत्रोऽवतारे अध पतने । तदेव नितम्बादिगौरवं साहायक कारि साहायकं करोतीति साहाय्यकारि चिन्तितम् ॥ ९ ॥
उपात्तपाणिस्त्रिदशेन वल्लभा, श्रमाकुलाकाचिदुदंचिकंचुका । वृपस्य या चाटुशतानि तन्वती, जगाम तस्यैव गतस्य विन्नताम् ॥ १० ॥
,
1
( व्या० ) उपात्तेति । काचिद् देववल्लमा देवांगना श्रमाकुला श्रमेण आकुला त्रिदशेन देवेन उपात्तपाणि उपात्त गृहीतः पाणिर्हस्तो यस्याः स गृहीतहस्ता सती तस्यैव त्रिदशस्य गतस्य (क्लीवे क्त । ५ । ३ । १२३ । इ. सू. गम् धातोर्भावे नपुंसके क्त गम्यते इति गतम् ।) गमनस्य विन्नतां (विहन्यते अनेन इति विघ्नः । स्थादिभ्यः क. । ५ । ३ । ८२ । इ. सू. विपूर्वकहनुधातोः क अनोऽस्य । २ । १ । १०८ । इ. सू. अनोऽस्य लुक् । हनो ह्रोन्न. । २ । १ । ११२ । इ. सू ने कृते । विघ्न' । भावे त्वतलू । ७। १ । ५५ । इ. सू. विघ्न शब्दात् भावेऽर्थे तल् ) जगाम । किं कुर्वतो सती वृषस्यया (अमान्ययात् क्यन् च । ३ । ४ । २३ । इ. सू. वृषशब्दात् इच्छार्थे क्यत् प्रत्यय वृषाश्वान्मैथुनेस्सोऽन्तः । ४ । ३ । ११४ । इ. सू. वृषशब्दात् सोऽन्तः । शंसि प्रत्ययात् । ५ । ३ । १०५ । इ. सू. वृषस्यधातोः अप्रत्ययः लुगस्यादेत्यपदे । २ । १ । ११३ । इ. सु अकारलोप । आत् । २ । ४ । १८ । इ. सू. आप् । मैथुनार्थं वृषेच्छा वृषस्या 1 ) मैथुनेच्छ्या चाटुशतानि तन्वती पुन उदचिकंचुका उच्छसत् कञ्चुका ॥ १० ॥
पुरस्सरीभूय मनाक् प्रमादिनं, क्वचित् कृषन्तीष्वमरीषु बल्लभम् । विशा वशाः स्युः पथि पादशृंखला, इति श्रुति केsपि वृथैव मेनिरे ॥