________________
श्रीजैनकुमारसम्भवाख्य महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ४ (१२५
कशाप्रहारै कशानां प्रहारास्तै प्रत्युत विशेषात् सादिनामश्ववाराणां श्रमं वितेनिरे (अनादेशादेरेकव्यञ्जनमध्येऽत । ४-१-२४ । इ सू परोक्षायां तन्धातोरत्वं न च द्वित्वम् ) ददु । कि कुर्वतां सादिनां प्रभोः श्रीऋषभदेवस्य विवाहाय रयात् वेगात यियासतां गन्तुमिच्छताम् । किं लक्षणा वाजिन नभोनढीतीरतृणार्पितानना. नभयो नदी आकाशगङ्गा तस्या तोरे तटे यानि तृणानि तेषु अर्पित क्षिप्तं आननं मुखं यैस्ते । आकाशगङ्गाया तीरे तृणानि कथमुद्छन्तीति केनापि पृष्टे प्रत्युत्तरमिदम् याशी आकाशगङ्गा तादृशानि तृणान्यपि ज्ञेयानि । परं लोके वढयैव ज्ञेयम् । उक्तं च कविशिक्षायां 'जालभाचं नभोनव्यमंभोजाचं नदीष्वपि' इति अग्रतोऽपि व्यावर्णन न दोषाय ॥ ७ ॥ मिथो निरुच्छ्वासविहारिणां सुधा-भुजां भुजालंकृतिघट्टनात्तदा । मणिव्रजो यत्र पपात ते पयः, क्षितिश्च रत्नाकरखानितां गते ॥८॥
(व्या०) मिथ इति ॥ तदा तस्मिन्नवसरे मिथ परस्परं निरुवास. विहारिणां (अजाते. शोले । ५ । १ । १५४ । इ. सू चिपूर्वकहधातोः शीलादि सदर्थे णिन् ) निरुच्छ्वासं उच्छ्वासं विनापि यथा भवति तथा विहरन्ति इत्येवंगोलास्तेषां सुधाभुजां (किम् । ५-१-१४८ । इ सू सुधानामपूर्वकभुज्धातो. कर्तरि किम् ) सुधां भुञ्जते इति सुधाभुजस्तेषां देवानां भुजालंकृतिघटनात् भुजानां अलंकृतिगभूषणं तस्याः वनं तस्मात् भुजांगदधर्षणात् यत्र स्थाने मणिवज मणीनां रत्नानां व्रज समूह पपात । तत्र स्थाने ते पयः पानीयं भितिश्च पृथ्वी च रत्नाकरखानितां रत्नाकर (पुन्नानि घ । ५ । ३ । १३० । इ. सू आड्पूर्वककृधातो संजाया घ आकुर्वन्ति अस्मिन्निति आकर रत्नानामाकर) समुद्र रत्नखानिश्च तद्भाव गते । अत्रापि अनुमानालंकारो ज्ञेयः ॥ भवेत् प्रयाणे भुवि विघ्नन्मृगी-दृशां नितम्बस्तनभारगौरवम् । - अधोऽवतारे तु सुपर्वयौवतै-तिदेव माहायककारि चिन्तितम् ।। ९ ।।
(व्याः) भवेदिति ॥ मृगीशा स्त्रीयां नितम्बस्तनभारगौरवं नितम्वश्व