________________
१२४) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टोकासमलंकृतम् ॥ सर्गः ४
वाहनम् ।) इभो हस्ती कस्यचिद्देवस्य युग्यं (वहतिरथयुगप्रासङ्गात् । ७-१-२ इ. सू. युगशब्दात् वहति अर्थ य प्रत्ययः युगं वहतीति युग्य ) यानभूतं हरि सिंहं निरीक्ष्य दृष्ट्वा भीतोऽपि पलायितुं (क्रियायां कियार्थायां तुम् णक च भविष्यन्ती । ५ । ३ । १३ । इ. सू. परापूर्वक अयधातो. तुम् प्रत्ययः । स्ताशितोऽत्रोणादेरिट । ४ । ४ । ३२ । इ. सू. तुमः इट् । ) नाशकत्. न त । सोऽपि सिंहोऽपि प्रकोपनः ईर्ष्यालु सन् । तमिभं हस्तिनं धर्षितुं नायकत् । केषु सत्सु अमीषु देवेषु नीरंध्रचरेषु नीरंध्रे यथा भवति तथा चरन्ति तेषु निधि चल्त्सु । पतितोऽपि तिलो यत्र नाघो याति तन्नोरंध्रमुच्यते ॥५॥ महातनुः स्थूलशिरा विलोहिते क्षणः परस्यासनकासरः पुरः । पलाययन् वाहनवाजिनो व्यधा-तुरंगिणां प्राजनविश्रमं क्षणम् ॥६॥
(व्या०) महातनुरिति ॥ परस्यान्यदेवस्य आसनकासरः (करणाधारे । ५ । ३ । १२९ । इ. सू. आस्धातो: आधारे अनः आस्थते अस्मिन् इति आसनम् ।) आसनसाक• कासर महिष तुरंगिणामश्ववाराणां क्षणं प्रोजनविश्रम प्राजनस्य विश्रमस्तं तर्जनकविश्रमं व्यधात् । किं लक्षणः कासरः महातनु: (एकार्थ चानेकं च ३ । १।२२। इ. सू. बहुव्रीहिसमासः जातीयैकार्थच्चेः । ३ । २ । ७० । इ. स. महतः डा, डित्यन्तस्वरादे: इ. स. अन्त्यस्वरादेलोप:) महती तनुः शरीरं यस्य सः स्थूलशिरा स्थूल शिरो मस्तकं यस्य सः बृहन्मस्तकः विलोहितक्षण: विलोहिते ईक्षणे नेत्रे यस्य सः आरतलोचनः किं कुर्वन् कासरः वाहनवाजिनः वाहनीभूतान् वाजिनस्तुरंगान् पलाययन् पलायनं कारयन् । पूर्ववृत्ते नीरंध्रचरत्वं प्रोक्तम् अत्र पलायनं प्रोक्तम् । इत्थं वचनविरोधः स्यात् परन्तु मार्गे चलता कापि संकीर्णता क्यापि असंकीर्णता भवति ततो न विरोधः ॥६॥ प्रभोर्विवाहाय स्याधियासतां, वितेनिरे प्रत्युत सादीनां श्रमम् ।। नभोनदीतीरतणार्पितानना, कशाप्रहारैः पथि यानवाजिनः ।। ७॥
(०या०) प्रभोरिति । यानवाजिनः (यान्ति अनेन इति यानं करणाधारे ५ । ३ । १२९ । इ. सू याघातो. करणे अनट ) यानीभूततुरगा• पथि मार्ग