________________
श्री जैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ४ (१३५
णाय समर्थौ वर्तेते हेतुमाह यत् यस्मात् कारणात् हेम सुवर्ण अपटुसंज्ञमपि अहो इत्याश्चर्ये अंगदत्वं वाहुरक्षत्वं पक्षे देहदाहकत्वमवाप । किं विशिष्टं अंगदत्व तदुपासनाफलं तयोः भुजयो. उपासनायाः ( णिवेत्त्यासश्रन्थघवन्देरनः । ५ । ३ । १११ । इ. स. उपपूर्वक आस्धातोः स्त्रियां भावे अनः । आत् इ. सू आप् ) सेवाया फलम् ॥ २७ ॥
-
,
प्रकोष्ठकंद कटकेन वेष्टितं विधाय मन्येऽस्य ररक्ष वासवः । स पञ्चशाखोऽमरभूरुहो यदु- वस्त्रिलोकी मदरिद्रितुं क्षमः ॥ २८ ॥
( ०या० ) प्रकोष्ठ इति ॥ अहं एव मन्ये वासव ( वसति स्वर्गे इति वासवः मणिवसेर्णित् । ५१६ । इ. उ. सू. वसूधातोर्णित् अवः । ति । ४ । ३ । ५० । इ. सृ. उपान्त्यवृद्धि:) पंच अंगुलयः शाखाः यस्य सः । पक्षे स पंचशाख पंचशाखासहित अमर मूरुहः कल्पवृक्ष अमराणां देवानां भूरुहो वृक्ष त्रिलोकीं त्रयाणां लोकानां समाहार · त्रिलोकी (संख्या समाहारे च द्विगुश्चानाग्न्ययम् । ३ । १ । ९९ । इ. सू. समाहार द्विगु द्विगोः समा हारात् । २-४-२२ । इ. सू. स्त्रियां डी) तां त्रिभुवनमदरिद्रितुमदरिद्रीकर्तुं समर्थो वर्तते । यस्मात् कंदात् एवंविधः कल्पद्रुमः स्यात् स कथं न रक्ष्यते इति भाव ॥ २८ ॥
तलं करस्यास्य परं परिष्कृता - खिलांगसाघोर्यदभूद भूषितम् । अवैमि देव्या वसनाय तच्छ्रियो, रतिं न भृम्ना भुवि यन्ति देवताः ॥
( व्या० ) तलमिति ॥ यत् यस्मात् कारणात् अस्य भगवतः करस्य ( कार्यते अनेन इति करः पुन्नानि घः । ५ । ३ । १३० । इस संज्ञायां करणे घः ।) हस्तस्य तलं परं केवलं अभूषितमनलंकृतं पक्षे न भुवि उषितं अभूषितमभूत् । किं विशि० भगवत' परिष्कृताखिलांगसाधोः परिष्कृतेन अलंकृतेन अखिलेन समस्तेन अंगेन शरीरेण साधुः मनोज्ञस्तस्य अखिलं च तत् अंगं च अखिलांगं परिष्कृताखिलांगं परिष्कृताखिलांगेन साधुस्तस्य । तस्य श्रीः