________________
जनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ३ (१२१
( व्या० ) एवमिति । दिविपयोपा दिवि आकाशे सोदन्ति गच्छन्तीति दिविपदो ( किप् । ५ । १ । १४८ । इ सू. दिव् उपपदे सङ्घातो. क्विप् । अद् व्यञ्जनात् सप्तम्या बहुलम् | ३ | २ | १८ | इ. सू. सप्तम्या अलुप् ।) देवास्तेषां योषा स्त्रिय. देवांगना वरं स्मरन्त्य सत्य तस्थु किं कृत्वा उभे
सुमंगलासुनन्दे कन्ये उद्धृत्य स्नानस्थानात् उत्पाट्य मध्ये मातृगृहं (पारे मध्येऽग्रेऽन्त' पष्ट्या वा । ३ । १ । ३० । इ. नू अव्ययीभाव समास ) मातृगृहस्य मध्ये मध्ये मातृगृहं अदोपासने अदोषं च तत् आसनं च अद्रोपासनं तस्मिन् निर्दोपासने निवेश्य उपवेश्य । किं विशिष्टे कन्ये एवममुना पूर्वोक्तप्रकारेण स्नातविलिप्तभूषिततनू (आदौ ) खाता ( पचात् ) विलिप्ता (पूर्व कालैक सर्वजरत् पु-म् । ३-१-९७ इ. सू. समासः ) भूषिता अलंकृता च तनू शरीरं ययोस्ते ते | अत्र असन्धिः । किं कुर्वन्स्य दिविषयोपाः धवलेषु तद्गुणगणं तयोः कन्ययोगुणास्तेषां गणस्तं गुणसमूहं गायन्न्य' । पुन कि वि० तद्वक्त्रवीक्षोत्सवच्छेदानाकुलनिर्निमेषनयनाः तयो कन्ययो वक्त्रस्य वदनस्य वीक्षा अवलोकनं सा एवं उत्सवः तस्य छेदे छेदविषये अनाकुले अभ्याकुले निर्निमेषे निमेषरहिते नयने लोचने यासां ताः । मेषोन्मेषकारिणां जनानां वीक्षोत्सवच्छेद' स्यात् परं तासां स्वभावनिर्निमेषत्वात् नेत्रयोरनाकुल्त्वमिति भाव: ॥ ८१ ॥
1
सूरिः श्रीजयशेखरः कविघटाकोटीरहीरच्छवि- । र्श्वम्मिलादिमहाकवित्वकलनाकल्लोलिनी मानुमान् ॥ वाणीदत्तवरश्विरं विजयते तेन स्वय निर्मिते ।
सर्गों जैनकुमारसंभवमहाकाव्ये तृतीयोऽभवत् ॥ ३॥ इतिश्रीमदच्छीयश्ञ्चलगच्छे कवि चक्रवर्त्तिश्रीजय शेखरसूरिविरचितस्य श्रीजेनकुमारसंभवमहाकाव्यस्य तच्छिष्य श्री धर्मशेखर महोपाध्यायविरचिताया टीकायां श्रीमाणिक्य सुन्दरशोधिताया तृतीयसर्गव्याख्या समाप्ता ॥ ३ ॥