________________
अथ चतुर्थसर्गः प्रारभ्यते ।
अधात्र पाणिग्रहणक्षणे प्रति-क्षणं समेते सुरमंडलेऽखिले । इलातलस्यातिथितामिवागता-ममस्त सौधर्मदिवं दिवःपतिः ॥१॥
(व्या०) अथेति ॥ अथानन्तरं दिव:पति: इन्द्रः सौधर्मदिवं इलातलस्य इलायाः तलं तस्य पृथ्वीतलस्य अतिथितां प्राघूर्णतामिवागतामस्त मन्यते स्म । क सति अत्र अस्मिन् पाणिग्रहणक्षणे पाणिग्रहणस्थ क्षणः तस्मिन् विवाहावसरे अखिले समग्रे सुरमंडले सुगणां मंडलं तस्मिन् देवसमूहे क्षणं क्षणं प्रति (योग्यता वीप्सार्थानतिवृत्तिसादृश्ये । ३-१-४० । इ. सू. वीप्सायां समासः । क्षणं क्षणं इति प्रति अगम् । ) समेत समागते सति ॥ १ ॥
नवापि वैमानिकनाकिनायका, अधस्त्यलोकाधिभुवश्व विशिनः । शशी रविय॑न्तरवासिवासबा, द्विकाधिकात्रिंशदुपागमनिह ॥ २ ॥
(व्या०) नवापि । एकस्य पूर्वमागतत्वात् शेपे नवापि वैमानिकनाकि नायका वैमानिकानां (चरति । ६ । ४ । ११ । इ सू. विमानशब्दात् चरति अर्थ इकण प्रत्यय विमानै परन्ति इति वैमानिकाः ।) नाकिनां देवानां नायकाः (णक तृचौ । ५ । १ । ४८ । इ. सू. नीधातोः कर्तरि णक: नामिनोऽकलिहले । ४ । ३ । ५१ । इ. सू. ईकारस्य वृद्धि एदेतोऽयाय । १-२-२३ । 5. सू. आयादेशे नयन्तीति नायकाः) इन्द्राः च अन्यत् विशिनः विंशतिर्मानमेवामिति विभिन डिन् इति सूत्रेण डिन् प्रत्ययः इनश्च विशतेस्तेर्डिनि इति सूत्रेण तिलोप डित्यन्तस्वरादेरन्त्यस्वरलोपे विशिन इति विंशतिसंख्या अधस्यलोकाधिभुव अधो भवा अवस्त्या. ते च ते लोकाश्च अधस्त्यलोकाः तपामधिभु स्वामिन पाताललोकम्बामिन शशी चन्द्र: रविः सूर्य व्यन्तरवासिनां वासवा व्यनरवासिवानवा व्यन्तरेता द्विकाधिका द्विकेन अधिका त्रिंशत् द्वात्रिंशत् इद मंडपे उपागनन् आगताः ॥ २ ॥