________________
१२०) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ३
नखजितमणिजालौ स्वश्रियापास्तपद्मौ
गतिविधुरितहसौ मार्दवातिप्रचालौ । तदुचितमिह साक्षीकृत्य देवीस्तदंही
सपदिदधतुराभां यत्तुलाकोटिवृत्ताम् ।। ८ ।।
(व्या०) नखजित इति ॥ इह देवी साक्षीकृत्य (साक्षाद् द्रष्टा । ७ । १ । १९७ । इ. सू. साक्षात् शब्दात् दृष्टरि अर्थे इन् प्रत्ययः प्रायोऽव्ययस्य । ७ । ४ । ६५ । इ. सू. अन्त्यस्वरादेलोपः कृम्वस्तिभ्यां कर्मकर्तृभ्यां-च्चिः । ७ । २ । १२६ । इ. स. साक्षिशब्दात् वि. नानो नोऽनह: । २-१-९१ इ. सू. न लोपः दीर्घश्चियड्यकेषु च । ४ । ३ । १०८ । इ. सू. इकारस्य दोधत्वं । उधिनुकरणविडाचश्च गतिः । ३ । १ । २ । इ. स. गतिसंज्ञा गतिकन्यतत्पुरुषः । ६ । १ । ४२ । इ. सू. समासः । अनञः क्त्वो य५ । ३ । २ । १५४ । इ. सू. यबादेशः ) तदही तयोः कन्ययोः अही कमी सपदि झटिति यत् तुलाकोटिवृत्तां तुलाकोटिश-देन पुरं पक्षे तुला उपमा तस्याः कोटिः अग्रभागः तस्मात् वृत्तां निष्पना आमां शोमां दधतुः तत् उचितं योग्यमतानि सर्वाणि तदहयोविशेषणानि । कि विशिष्टौ तदही नखजितमणिजालौ नः जितानि मणिजालानि याभ्यां तौ नखकिरणजितमणिसमूहौ । पश्रिया स्वस्य निजस्य श्रीः शोभा तया अपास्तपनो अपास्तानि पानि याभ्यां तौ स्वशोभया निराकृत कमलौ । गतिविधुरितहसौ गत्या विधुरिताः लक्षणया जिताः हंसा याभ्यां तौ । मार्दवातिप्रवालौ माईवेन सौकुमार्येण अतिक्रान्ता प्रबाला नवांकुरा याभ्यां तौ अत एव जितसर्वोपमानत्वात् तुलाकोटित्वमिति भावः ॥८॥
एवं स्नातविलिप्तभूषिततनू उध्दत्य कन्ये उभे
__ मध्ये मातृगृहं निवेश्य दिविषद्योषा अदोषासने । गायन्त्यो धवलेषु तद्गुणगणं तद्वक्रवीक्षोत्सव
च्छेदानाकुलनिनिमेषनयनास्तस्थुः परन्त्यो वरम् ॥८॥