________________
श्रीजैनकुमारसम्भवास्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ३ (११९
ये तयोरशुभता करणमूले, काममोहभटयोः कटके ते। अङ्गुलीषु सुषमामददुर्यो, ऊर्मिका ननु भवाम्बुनिधेस्ताः ॥ ७८ ॥ ___ (व्या०) ये इति ॥ ये कटके तयो. कन्ययोः करमूले अशुभतां शोभिते ते काममोहमट्यो कटके सैन्य ज्ञेये। या. ऊर्मिका' मुद्रिका: तयोः कन्ययोः अंगुलीषु सुषमा शोभामदद ददति स्म ननु निश्चितं ताः भवाम्बुनिधे भवः संसारः एव अंबुनिधिः (उपसर्गा. किः । ५ । ३ । ८७ । इ. सू. निपूर्वक धाधातो: कि । इडेत् पुसीति सूत्रेण आकारलोप ।) समुद्रस्तस्य संसारसमुद्रस्थोर्मिका लहों ज्ञेया ॥ ७८ ॥ त्रिभुवनविजिगीषोर्मारभूपस्य वाधा
ऽवनिरजनि विशाला तन्नितम्बस्थलीयम् । व्यरचि यदिह काञ्ची किंकिणीभिः प्रवल्ग,
चतुरतुरगभूषा घघरीघोपशंका ।। ७९ ॥ (व्या०) व्यरचीति त्रिभुवनेति ॥ इयं तन्नितम्बस्थली तयोः कन्ययोः नितम्बस्थली कटीतटस्थली मारभूपस्य मार कामः एव भूपो नृपस्तस्य कामराजस्य वाह्यावनिः अश्ववाहनिका भूभिः अजान जाता । तत्र हेतुमाह-यत् यस्मात इह कारणात् नितम्बस्थल्यां काश्ची मेखला तस्या किंकिण्यः क्षुद्रटिकाः ताभिः प्रवल्गचतुरतुरंगभूषाघर्घरीघोषशका प्रवल्गन्त: उछलन्त चतुरा ये तुरगाः(नाम्नो गमः खड्डौ च विहायसस्तु विहः । ५-१-१३१ । इ. सू. तुरशब्दपूर्वक गमधातोः ड प्रत्ययः डित्यन्तस्वरादेरिति सूत्रेण अम् लोपः) तेषां भूषा (भीषिभूषिचिन्तिपूजि-भ्यः इ. सू. अड् आत् इ सू. आप्) धर्धरीणां पोषशंका व्यरचि कृता । यत्र अश्वाः वाद्यन्ते तत्र धर्धरीघोषः स्यादेवेति भावः । किं विशिष्टस्य मारभूपस्य त्रिभुवन विजिगीषोः त्रयाणां भुवनानां समाहारत्रिभुवन (संख्या समाहारे च द्विगुश्चानाम्न्ययम् । ३ । १ । ९९ । इ. सू. समास ) विजेतुमिच्छतीति विजिगीषति विजिगीषतीति विजिगीषु: त्रिभुवनस्य विजिगीषुः तस्य त्रिभुवनजेतुमिच्छोः ॥ ७९ ॥