________________
११८) श्रीजैनकुमारसम्भवास्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ३
चकार । किं विशिष्ट मौलिं मणीनां किरणैर्जटालं (कोलाजटाघाटात् क्षेपे । ७। २। २३ । इ. सू. जटाशब्दात् मत्वर्थ ल ।) व्याप्तम् । अत्रापि लक्षणा ज्ञेया ॥ पारे शिरोजतमसामुदियाय भाले, लक्ष्म्या घनावसथतां गमिते तदीये । विक्षिप्तनागजरजोत्रजसांध्यराग-संकीर्णसिम्नि तरणिस्तिलकच्छलेन ॥
(व्या०) पारे इति ॥ तरणिः सूर्य तदीये नयोः कन्ययो इदं तदीयं तस्मिन् भाले शिरोजतमसी शिरसिजाता. शिरोजा. (सप्तम्याः । ५-१-१६९ इ. सू. शिरसि उपपदे जनेई. । डिल्य त्यस्वरादेः इ. सू. अन्त्यस्वरादेलोपः ।) केशाः ते एव तमांसि तेषां केगरूपांधकाराणां पारे उदियाय उदयं प्राप्तः । किं विशिष्टे भाले लक्ष्म्याः श्रिय शोभाया वा घनावसथता दृढ स्थानकता पक्षे धनावसथतामाकाशतां गमिते प्रापिते विक्षिप्तनागजरजोत्रजसांध्यरागसंकीणसीनि विक्षिप्तं विस्तारितं च तत् नागजरजश्च तस्य व्रज समूहः स एव सांध्यराग: तेन संकीर्णा सीमा पर्यन्तदेशो यस्य तस्मिन् तरणि केन उदियाय तिलक लेन तिलकस्यलं तेन ॥ ७६ ॥ यच्चाक्रिकभ्रमिदिनाधिपतापवन्हि-सेवापयोवहन मुख्यमसोढ कष्टम् पुण्येन तेन तदुरोरुहतामवाप्य, कुंभो बभाज मणिहारमयोपहारम् ॥७७॥
(-या०) यत् इति ॥ यत् यस्मात् कारणात् चातिक: कुलाल: तस्य चक्रोपरिभ्रम. चाक्रिकभ्रम दिनाधिपतापः दिनाधिपत्य (अधिकं पातीति अधिपः उपसर्गादातो डोऽश्यः । ५ । १ । ५६ । इ. सू. अधिपूर्वक पाधातोः ।) सूर्यस्य ताप सूर्यकिरणताप' वह्निसेवा वह्नः सेवा पावकावस्थाभवा पयोवहन जलहरणं चाक्रिकश्चि] भ्रमिश्च दिनाधिपतापश्च पहिसेवा च पयोवहनं च तानि मुख्यानि यस्मिन् तत् एवं विधं कष्टमसोढ कहते स्म तेन पुण्येन तदुरोरुहतां तयो. कन्ययोः उरोरोहता तां ततनत्वं प्राप्य मणिहारमयोपहार मणिहारमयमुपहारं पूजां बभाज भजति स्म । 'देहे दुःखं महाफल'मित्यागमः । अत्र वृत्त अनुमानालंकारो ज्ञेय । कुंभेन किमपि पुण्यं कृतं तेन हारादिपूजा प्राप्तेति भावः ।