________________
जैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ३ (११७
( व्या० ) हस्त इति । कज्जलं धिक् धिग् योगे ( गौणात्समयानिकषाहाधिक अन्तरान्तरेणातियेन तेनै द्वितीया । २ । २ । ३३ । इ. सू. कज्जलमित्यत्र द्वितीया यत् कज्जलं तन्नयनप्रविष्टं सत् तयो कन्ययोः नयनानि तन्नयनानि तन्नयनेषु प्रविष्टं सत् यूनो भस्मयति स्म ( णिज् बहुलं नाम्न कृगादिषु । करोत्सर्थे णिच् । त्र्यन्तस्वरादे' |
•
३ । ४ । ४२ । इ. सू
भस्म करोति
७ । ४ । ४३ । इ. सू. इति मस्मयति ) अत्र लक्षणा ज्ञेया व्यामोहयति स्मेति भाव । किं विशिष्टं कज्जलं हस्ते च अन्यत् शिलाकावदने शिलाकाया वदनं तस्मिन् तिष्ठत् (शत्रान|| वेष्यति तु सस्यौ । ५ । २ । २० । इ सू. स्थाधातो वर्तमाने शतृ प्रत्ययः श्रौतिकृषु धिवु-दम् । ४ । २ । १०८ । इ. सू. स्थाधातोः तिष्ठा देश :) सत् न निष्ठुरं अनिष्ठुरं कोमलं लक्षणया शांतं वा । तापकरप्रसूते: तापकरः ( हेतु तच्छी लानुकूलेऽशब्दश्लोककलहगाथावर चाटुसूत्र मन्त्रपदात् । ५ । १ । १० 1 इ. सू. तापपूर्वक कृग्धातोः शीलेऽर्थे ट, तापं करोति इत्येवंशील. 1) अग्निः दुर्जनादिर्वा तस्मात् प्रसूतिर्यस्य सः तस्य अग्निदुर्जनादिजातस्य अन्यस्यापि को विश्वसेत् इति अनश्वर प्राणने इति धातोर्नप्रयोग किन्त्वन्यः कोऽपि धातुर्घटते 'न विश्वसेदमित्रस्य मित्रस्यापि न विश्वसेत् इति लोकेऽप्यस्ति । कोऽर्थः कज्जलं पूर्व हस्ते म्रियते ततः शिलाकामुखे स्थाप्यते अस्मिन्नवसरे न कमपि व्यामोहयति किन्तु नयनप्रविष्टमेव अत कज्जलेन विश्वासघातः कृतः । अथ तापकरजातस्य न विश्वसेदिति भावः ॥ ७४ ॥
भस्मन् शब्द। अन्त्यस्वरादेर्लोप
शची स्वहस्तेन निवेश्य मौलौ, मौलिं मणीनां किरणैर्जटालम् । तयोर्गुणाधिक्यभवं प्रभुत्वमशेषयोषित्सु ढीचकार ॥ ७५ ॥
( व्या० ) शचीति । शची इन्द्राणी स्वहस्तेन स्वस्य हस्तः तेन तयो' कन्ययो' मौलौ मस्तके मौलिं मुकुटं निवेश्य अशेषयोषित्सु अशेषाश्च ता योषितश्च तासु सर्वत्रीषु गुणाधिक्यभवं गुणानामौदार्थगांभीर्यादिगुणानामाधिक्यात् भवं प्रभुत्वं दृढीचकार न दृढमदृढं अदृढं दृढं संपद्यमानं यथा चकार इति दृढ़ी