________________
११६) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ।। सर्गः३
एव कूपौ तौ त्वरितं शीघ्रं व्यधत्त (बावाप्योस्तनिकाधामहोपा । ३-२-१५६ इ सू. अपि स्थाने पिः) आच्छादयति स्म । उप्रेक्ष्यते-इतीव अत्र एतयोः ककूपयोः यूनां यौवनप्राप्तानां चेतः स्वान्तं स्मरान्धं स्मरेण अन्धं कामान्धं सत् मा पतत् स्म (सस्मे ह्यस्तनीच । ५ । ४ । ४० । इ. सू. यस्तनी) मा पततु कि लक्षणं चेतः परया औत्सूक्येन पुरान्तः संचारि (समत्यपाभिव्यभेश्वरः । ५ । २ । ६२ । इ. सू. संपूर्वक चरधातोः गालादिसदथै धिनण् प्रत्ययः ।) पुरं शरीरं पक्षे नगरं तस्यान्तमध्ये संचरणशीलम् ॥ ७२ ॥
भोगीदमीयः किलकेशहस्त-ततान यूनां हदि यं विमोहम् । सोऽनधि चूडामणिनापि तेपा-मथो गतिः केत्यवदन्मधोनी ।। ७३॥
(व्या०) भोगीति ॥ मधोनी (स्त्रियां नृतोऽवत्रादेडीः । २ । ४ । १ । इ. सू. मघवन् शब्दात् स्त्रियां डीः । श्वन् युवन् मघोनो डीस्यायधुट्वरे व उः । २ । १ । १०६ । इ. सू. मघवन्शब्दे वकारस्य ज्या परे उः । अवर्णस्येवर्णादिनदौदरल् । १ । २ । ६ । इ. सू. ओकारे मधोनी ।) इन्द्राणी इत्यवदत् इतीति किं इदमीयः (तस्येदम् । ६ । ३ । १६० । इ. सू. इदमर्थे इदम् शब्दात् दोरीय । ६-३-३२ । इ. सू. ईय प्रत्ययः । त्यदादि। ६-१-७॥ इ. सू. इदम् सदस्य दुसंज्ञकत्वात् ) अनयोस्यमिदमोयः किल इति सत्य केशहस्त: केशानां हस्तः कलाप• केशहत्तः हस्त: पक्ष कलापश्चेति नाममालोti ज्ञेयम् । यूनां हृदि यं विमोहं ततान । किं विशिष्ट केशहस्तः भोगी भोग' कुसुमकस्तूरिकादीनां विद्यते यत्रासौ भोगवान् । पक्षे सर्प स विमोहः चूडा. मणिनापि अवधि पति । तेषां यूनामथो कागतिर्भविष्यति ॥ कोऽर्थः सर्पमणे विषमुत्तरति इति रूढिः तयोः कन्ययोः शीर्ष केशकलापसोपरिचूडामणि दृष्ट्या युवानो विशेषतो व्यामोहिताः ॥ ७३ ॥
हस्ते शिलाकावदने च तिष्ठ-दनिष्ठरं तनयनप्रविष्टम् । विकालं भस्मयति ॥ यूना, को विश्वसत्तापकरप्रवृतेः ॥ ७४ ॥