________________
जैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ३ (११५
मन्दारमालामकरन्दविन्दु-सन्दोहरोहत्प्रमदाश्रुपूरा । दूरागता शैत्यमृदुत्वसारा, सखीव शिश्लेष तदीयकंठम् ॥ ७० ॥
(व्या०) मन्दारेति ॥ मन्दारमाला मदारपुष्पाणां माला दूरागता दूरादागता सखीव तदीयकंठं तयोः सुमंगलासुनन्दयो। अयं तदीयः स चासौ कंटश्च तदीयकंठस्तं शिले५ आलिंगति स्म । कि लक्षणा मन्दारमाला मकरन्दबिन्दुसन्दोहरोहत्प्रमदाश्रुधारा मकरन्दानां बिन्दवः तेषां सन्दोह समूहः स एव रोहन प्रवर्द्धमान प्रमदाश्रूणां पूरः हर्षाश्रुपूरो यस्याः सा मकरन्द० शैत्यमृदुत्वसारा शैत्यं (जातस्य भाव शैत्यं पतिराजान्त गुणाराजादिभ्यः कर्मणि च । ७ । १ । ६० । इ. सू. गुणवाचकशीतशब्दात् भावे यण) च मृदुत्वं च शैत्यमृदुत्वे ताभ्यां सारा मनोजा ॥ ७० ॥ न्यस्तानि वध्वोदनेऽमरीभि-रामाभरं भेजुरभंगरंगम् ।। उद्वेगयोगेऽपि भुजङ्गवल्ले-देलानि सुस्थानगुणः स कोऽपि ॥ ७१ ॥
(व्या०) न्यस्तानीति ॥ भुजङ्गबल्लेनागवल्ले: दलानि पत्राणि उद्वेगयोगेऽपि उद्वेग: संताप, पक्षे पूगीफलं तस्य योगस्तस्मिन्नपि आभाभरं आभानां भरस्तं शोभासमूहं भेजुः (तृत्रपफलमजाम् । ४ । १ । २५ । इ. सू. भज्धातोः उसि परे एत्वम् न च द्विर्भावः ) भजन्ते स्म । कि विशिष्टमाभाभरं अभंगरंग अभंगो रंग रंग एव वा यस्मिन् तं । स कोऽपि सुस्थानगुणो ज्ञेयः । कि विशिष्टानि दलानि अमरीभिर्देवांगनाभि ववो. कन्ययोदने न्यस्तानि क्षितानि । एक भुजंगवलेलानि द्वितीयमुद्वेगयोगः परमीशेऽपि सति यद् रंगो जातः स . तयोः कन्ययोर्वदनस्थानकगुणो ज्ञेय इति भावः ॥ ७१ ॥ भास्म स्मरान्धं त्वरया पुरान्तः, संचारिचेतः पतदत्र यूनाम् । . इतीव काप्युत्पलकर्णपूरै-स्तत्कर्णकूपौ त्वरित प्यधत्त ॥ ७२ ॥
(व्याः) मास्मेति ॥ कापि देवांगना उत्पलकर्णपूरः उत्पलानि एव कर्णपूरास्तैः कमलरूपकर्णाभूषणैः तत्कणकूपौ तयोः सुमंगलासुनन्दयो। कर्णी