________________
११४) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टोकासमलंहतम् ॥ सर्गः३
ध्रुवं निश्चित कुचकुंभयुग्मं कुचौ रतनी एव कुंभी घटी तयोः युग्मं इन्हें बभार धरति स्म अन्योऽपि कुंभाधारण दादिक तरति । तत्र हेतुमाह यत् यत्मात् कारणात् तत् कुभयुग्मं (सर्वामयाभिपरिणा तसा । २ । २ । ३५ । इ. सू. परितः योग तत् इत्यत्र हितीया पर्यभः समिये । ७।२ । ८३ । इ. सू. परे. सर्वार्थे तलु ।) परित समन्ततः अनुपक्ता. लग्ना मृगनामिनीलाः मृगनाभिभि कस्तुरिकाभिः नीलाः नीलवर्णाः पत्रवल्यो निरीक्षिता ॥६७ ॥ तनूस्तदीयाद दृशेऽमरीभिः, संवीतशुभ्रामलमजुवासा । परिस्फुटस्फाटिककोशवासा, हैमीकृपाणीव मनोभवस्य ॥६८ ॥
(व्या०) तरिति ॥ अमगेभिर्देवाशनाभिः तदीया तयोरियं तदीया तन्ः शरीरं ददृशे (दृश्धातोः कर्मणि परोक्षा) दृष्टा । तनुशन्दो देवाचक सीलिङ्गो ज्ञेयः । कन्याद्वये सत्यपि तनूरित्यत्र जातावेकवचनं ज्ञेयम् । किं विशिष्टा तनूः संवीतशुभ्रामलमजुवासा सवीतानि परिहितानि शुभ्राणि उचलानि अमलानि निर्मलानि मञ्जूनि मनोजानि वासांसि वस्त्राणि यया सा संवीन० । उप्रेक्ष्यते परिस्फुटस्फाटिककोवासा परिस्फुटो यो स्फाटिकको। तस्मिन् पासो यस्याः सा प्रकटस्फाटिकमणिमयप्रत्याकारकृतवासा मनोभवस्य कामस्य हेनोविकारो हैमी ( हेमादिभ्योऽञ् । ६ । २ । ४५ । इ. सू. हेमन् शब्दात् विकारे अन् प्रत्ययः ।) सुवर्णमयो कृपाणीव क्षुरिकेव ॥ ६८ ॥ द्वारेण वां चेतसि भर्तुरेष, संश्लेषमाप्स्यामि मुमुक्षितोऽपि । इतीव लाक्षारसरूपधारी, रागस्तयोरंहितलं सिपेवे ॥ ६९ ॥
(व्या०) द्वारेणेति ॥ लाक्षारसरूपधारी लाक्षायाः रस तस्य रूपं धरतीति अलक्तरसरूपधारी (अजाते. गोले । ५-१-१५४ । इ. सू. धृधातोः शीलेऽर्थे खिन् ) राग. (भावाऽको । ५ । ३ । १८ । इ. सू. धातो वे धम्) तयोः कन्ययो अहितलं चरणतलं सिवे सेवते स्म । उत्प्रेक्ष्यते इतोव एषोऽहं वां युवयो रेण भर्तुः श्रीषभदेवस्य चेतसि हृदये संश्लेष संबंध आप्स्यामि प्राप्स्यामि । किं विशिष्टोऽहं मुमुभितोऽपि मोक्तुमिष्टोऽपि ॥ ६९ ॥