________________
भीजनपुमारसम्मपाल्य महाव्यम् टीकासमलंकृतम् ॥ सर्गः3 (११३
सारागरागैः सुरभि सुवर्ण-मेवेतयोः कायमहो विधाय । जहे सुवर्णस्य सुरांगनाभिः, सौगन्ध्यवंध्यत्वकलंकपंकः ।। ६५ ॥
(व्या०) सारांगरागैरिति ॥ सुरांगनाभिः सुराणामंगना. सुरांगना (नोऽङ्गादे । ७ । २ । २९ । इ. सू. अङ्गशब्दात् मत्वर्थे न प्रत्ययः अङ्गं अस्ति आसामिति अङ्गना ।) ताभिः सुरांगनाभि. देवांगनाभिः सुवर्णस्य कनकस्य सौगन्ध्यवन्प्यत्वकलकपच सौगन्थ्येन पन्ध्यत्व रहितत्वं तदेव कलङ्कस्य पङ्कः सौरभ्यरहितत्वरूपकलङ्कपको जहे स्फटितः । किं कृत्वा एतयोः सुमंगला सुनन्दयोः कार्य (चितिदेहावासोपसमाधाने कश्चादे । ५। ३ । ७९ । इ. सू. चिधातो वे धम् आदेश्वस्य कः चीयते इति कायः ।) शरीरं सारागरागैः प्रशस्य विलेपन: अहो इत्याश्चर्य सुरभिं परिमलबहुलं विधाय कृत्वा किं विशिष्ट कार्य सुवर्णमेव गौरवर्णत्वात् ॥ ६५ ॥ तयोः कपोले मकरी फुटांगी-यन्यधूल्या लिलिखुस्त्रिदश्यः । स्मर वधार्य मकरः पूरंधी-स्नेहन धास्तदिहानिनाय ॥ ६६ ॥
(०या०) तयोरिति ॥ त्रिदश्य (तिस्त्र दशः अवस्था. येषां ते त्रिदशाः त्रिदशानां स्त्रियः त्रिदश्यः) देवांगना तयोः कन्ययोः कपोले यत् यस्मात् कारणात् गन्धधूल्या कस्तुर्या स्फुटांगीः प्रकटरूपाः मकरी लिलिखु लिखन्ति स्म तत् तस्मात् कारणात् मकरः पूरंध्रीस्नेहेन कलत्रप्रीत्या धावन् स्वधार्थ स्ववाद्यं स्वामिन स्मरं (स्मरन्ति अनेन इति स्मरः पुनाम्नि घ ।५-३-१३० इ. सू. स्मृधातो धम् ।) कंदर्प इह आनिनाय । कामो मकरध्वज उच्यते । मकरमकरीरनेहेन कामोऽपि तत्रागतः इति भावः ॥ ६६ ॥ बभार मारः फुचकुंभयुग्म, क्रीडन् ध्रुवं कान्तिनदे तदंगे । यत्पत्रवल्ल्यो मृगनामिनीला, निरीक्षितास्तत्परितोऽनुषक्ताः ॥१७॥
(०या०) वभार इति ॥ मारः (मारयतीति मार ) कंदर्प कान्तिनदे प्रभाइदे तदंगे तयो कन्ययो अंगं तदंग तस्मिन् तयोः कन्ययो शरीरे क्रीडन् सन्