________________
११२) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः३
(व्या०) सगोत्रयोरिति ॥ चित्रमाश्चर्य चिकुरौघमेधः चिकुराणां केशानाभोघ• कला५: स एव मेधः केशकलापरूपजलद गलन्नीरभिषात् गलत च तत् नीरं च गलनीरं तस्य मिषस्तस्मात् क्षरजलापदेशात् वर्षतीति वर्षन् सन् अवेक्षकाणां अवलोककानां मुखाजानि मुखरूपकमलानि अस्मेरयत् विकाशयति स्म । अन्यान्य जानि वर्षाकाले शटित्वा पतन्ति । परमत्र वैपरीत्यमतत्तचित्रम् । कि कृत्वा तयोः सुमंगलासुनन्दयोः सद्गोत्रयोः सत्प्रधान गोत्रं ययोस्ते सोने तयो पक्षे प्रधानपर्वतयोनि मस्तके उदीय उदयं प्राप्य किं विशिष्टः चिकुरौधोध नितम्वचुम्बी (अनातेः शीले । ५ । १ । १५४ । इ. सू. नितम्बपूर्वक चुम्बधातो. शीलादिसदर्थे णिन् प्रत्यय.।) नितम्बः कटीतटं पक्षे कटक तं चुम्वतीति स्पृशतीति भावः ॥ ६३ ॥ धम्मिल्लमलोऽधिगतस्मरास्त्र-मालोऽतरालोल्लसितप्रसूनैः । तन्मौलिवासाद् बलवान कस्य, बलीयसोऽप्येजयति स्म चेतः॥४॥
(व्या०) धम्मिल इति । धम्मिल: बाकेशकलापः एव मल्लः धम्मिल्लमल: कस्य बलीयसोऽपि (गुणाझाष्ठेयसू । ७-३-९ । इ. सू. बलशब्दात् इयसु प्रत्ययः) बलवतः चेतः स्वान्तं न एजयति स्म न कंपयति स्म अपि तु सर्वस्यापि । कि लक्षणो धम्मिलमलः अन्तरालोलसितप्रसूनः अन्तराले मध्ये उल्लसितानि च तानि प्रसूनानि च पुष्पाणि तैः अधिगता प्राप्ता स्मरस्य कामस्य अत्राणां (अस्यते इति असं त्र । इ. उ. सू. असूच् धातोः त्रट ।) शस्त्राणां माला श्रेणीयेन सः अधिगतस्मररास्त्रमालः । तन्मौलिवासात् तयोः कन्ययोः मौलिमस्तक तस्मिन् वासस्तस्मात् बलमस्यास्तीति बलवान् ॥ (तदस्याऽल्यस्मिन्निति मतुः । ७ । २ । १ । इ. सू. वलशदात् अत्यर्थे मतुः । मावर्णा तोपान्तापञ्चमवर्गान् मतोर्मो व. । २।१ । ९४ । इ. सू. मतोर्मस्य वः ।) यतश्चोक-'स्थान प्रधानं न पलं प्रधान, स्थानस्थितो गर्जति कातरोऽपि । हे वासुके वेनि तव प्रमाणं, कंठस्थितो गर्जसि शंकरस्य' ॥१॥ इति स्यानवलं कामस्य पुपवाणत्वात् । प्रातपुप्पैः शस्त्रवलं च ततो धम्मिल्लमल्लः कानकं पभम् इति भावः ॥ ६४ ॥