________________
जैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ३ (१०९
( व्या० ) कश्मीरवासा इति ॥ कश्मीर वासः यस्याः सा कश्मीरवासा भगवती सरस्वती आलेप्यमालेपनयोग्यं काश्मीर कुंकुमं इति बुद्धया अनाकुला एव दत्त ददौ । इतीति किं हि निश्चितं इदं काश्मीरं कुंकुमं यत्रापि तत्रापि भवत् विद्यमानं सत् ममदेशस्यनाम तत् मद्देशनाम न त्यजति यत् तत् कुंकुमं काश्मीरमेवोच्यते ॥ ५५ ॥
करोषि तन्वंगि किमंगभंगं, त्वमर्धनिद्राभरबोधितेव । न सांप्रतं संप्रति तेऽलसत्वं, कल्याणि कार्पण्यमिवोत्सवान्तः ||५६ || आलम्बितस्तंभमवस्थितासि, बाले जरार्तेव किमेवमेव । अलक्ष्यमविष्यसि किं सलक्ष्ये, साधोः समाधिस्तिमितेव दृष्टिः ॥ ५७॥ मनोरमे मुञ्चसि किं न लीलामद्याप्यविद्यामिव साधुसंगे । इतस्ततः पश्यसि किं चलाक्षि, निध्यातयूनी पुरि पामरीव ॥ ५८ ॥ भूषां वधव्यां द्रुतमानयध्वं धृत्वा वरार्थ धवलान् ददध्वम् । शच्येरितानामिति निर्जरीणां, कोलाहलस्तत्र बभूव भूयान् ॥ ५९ ॥ चतुर्भिः कलापकम्
( व्या० ) करोपीति । तत्र तस्मिन् मंडपे निर्जरीणां देवीनां भूयान् बहु' कोलाहलो कोलं वराहं आवहतीति त्रायतीति कोलाहलः बभूव । किं विशिष्टानां निर्जरीणां शच्या इन्द्राण्या इति अमुना प्रकारेण ईरितानां प्रेरितानां इतीति किं हे तन्वंग अंगभंग किं करोषि केव अर्द्धनिद्राभरबोधितेव अर्द्ध निद्राया• अर्द्धनिद्रा तस्या भरेण बोधिता जागरिता अंगभंगमालस्यं करोति हे कल्याणि ते तव अधुना अलसत्वं न सांप्रतं (सम्प्रति युज्यते इति साम्प्रतं । कचित् । ६ । २ १४५ । इ. सू. अणू ।) युक्तं किमिव कार्पण्यमिव यथा उत्सवान्तः उत्सवमध्ये कार्पण्यं (कृपणस्य भाव' कार्पण्यं पतिराजान्त गुणाङ्गराजादिम्य कर्मणि च । ७-१-६० । इ सू. कृपणशब्दात् भावे ट्यणू 1 ) न सांप्रतं युक्तम् ॥ ५६ ॥ हे बाले त्वं आलम्बितश्चासौ स्तंभच आलम्बितस्तंभ तं एवमेव किमवस्थितासि