________________
१०८) श्रीजनकुमारसम्भवास्यं महाकाव्यम् टोकासमलंकृतम् ॥ सर्गः ३
पादपूर्वचरणधातोः कः । इडेत पुसि इत्यालोपः ।) नन्दनवनवृक्षाणां पुप्पोत्कर पुप्पाणामुत्करः समूहस्तमुपाहरन् आनयन्ति स्म । शेपैः पकाशोकपुन्नागप्रियंगुपाटलाप्रभृतिभिवृक्षः शिरस्य पुप्पप्रकरस्य मस्तकसंबंधिपुप्पसमूहस्य वृथा वैचधिकाबभूवे (हस्युसङ्गादेः । ६-४-२३ इ. स. हरत्यर्थे विवधशब्दादिका विविधं हरन्तीतिवैवधिका कृस्वस्तिभ्यां कर्मकर्तभ्यां प्रागतत्त्वे विः । ७ । २ । १२६ । इ. स. वैवविकशब्दात् चिः । ईश्वाववर्णस्याऽनव्ययस्य । ४ । ३ । १११ । इ. स. ई ।) निरर्थक भारवाहकै तम् । अत्र भावे उक्तिजया ॥५२॥ वध्वोरलंकारसह सहर्षा, मणीगणं पूरयति स्म लक्ष्मीः । वारांनिधेस्तद्धनिनश्चिरत्नो, रत्नोच्चयः फल्गुरभूचितोऽपि ॥ ५३॥
(व्या०) वचोरिति ॥ लक्ष्मी सहर्षा हर्षेण सह वर्तते इति सह सति मणीगणं रत्नपुरं पूरयति स्म रत्नसमूहं पूरयति स्म । कि लक्षणं मणीगणं वयोः सुमंगलासुनन्दयोः अलंकारस्य सह अलंकारसमर्थ । तद्भनिन· कृपणस्य वारांनिधेः समुद्रस्य चिरत्न: (चिरपरुत्परारे नः । ६-३-८५ । इ. स. चिरशब्दात् त्नः चिरम्भवः चिरन ।) चिरकाली निश्चितोऽपि संचितोऽपि रत्नोचयः रत्नसमूहः फल: निष्फलोऽभूत् ॥ ५३॥ मंदाकिनी रोधसिरूढ पूर्वा, दूर्वा परार्थाय समानिनाय । पराभिराभिनवरं जिनीवे, पालेयदंतक्रकचार्तिहेतोः॥५४॥
(व्या०) मंदाकिनी इति ॥ मंदाकिनी गंगानदी परार्थाय वरस्य अर्थकते दूर्वाः समानिनाय । किं लक्षणा• दूर्वा रोधसि नटे ठपूर्वाः पूर्व रूढाः
पूर्वाः अग्रेप्युद्गताः । पराभिराभिः अन्याभिर्वाभिः न परं केवलं वालेयदंतककवातिहेतोः पालेयानां रासभानां दन्ताः एव कक करपत्रं तस्य अतिः पीडा तस्याः हेतोः तत्पीडानिमित्त जिजीवे ॥ ५४॥ कश्मीरवासा भगवत्यदत्त, काश्मीरमाले यमनाकुलैव । यत्रापि तत्रापि भवन हीदं, मद्देशनाम त्यजतीतिबुद्धया ॥ ५५ ॥