________________
श्रीजैनकुमारसम्भवाय महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ३ (१०७
तथा कथा: पप्रथिरे सुरेभ्यस्त्रिविष्टपे तत्कमनीयतायाः। यथा यथार्थत्वममाजिशोभा भिमानभंगादखिलैर्विमानैः ॥ ५० ॥
- (व्या०) तथेति ॥ त्रिविष्ट त्रिभुवने सुरेभ्यः देवेभ्यः तत्कमनीयतायाः तस्य कमनीयता तस्या. मंडपमनोज्ञत्वस्य तथा कथा (भीषिभूषिचिन्तिपूजिकथिकुम्बि-भ्यः । ५-३-१०९ । इ. सू. कथिधातो वे अड् आत् इ. सू. आम् ) पप्रथिरे विस्तृताः । यथा अखिलः समस्तैर्विमानै शोभाभिमानभंगात् शोभायाः (भिदादयः । ५-३-१०८ । इ. सू. शुभिधातोः संज्ञायां अड्प्रत्ययः गुणश्च ।) अभिमानस्य भंगः तस्मात् यथार्थत्वं सत्यार्थत्वममाजि (भजेभी वा । ४-२-४८ । इ. सू. भज्ज्धातोरुपान्त्यनस्य जो लोप. ।) सेव्यते स्म कोऽर्थः यस्य मंडपस्य शोभया विमानानि निरभिमानानि जातानीति भावः ॥५०॥
श्रीदेवताहैमवतं वितन्द्रा, शच्याज्ञया चन्द नमानिनाय । निनिन्द स स्वं मलयाचलस्तु, द्विजिह्वबन्दीकृतचन्द्रनद्रुः ॥ ५१॥
(व्या) श्रीदेवतेति ॥ श्रीनाम्नादेवता वितन्द्र। विगता तन्द्रा यस्याः सा वितन्द्रा आलस्यरहिता सती हैमवतं (हिमवत इदं हैमवतं तस्येदम् ९-३१६० । इ. स. इदमर्थेऽण् । ) हिमवत्संबंधिनं शच्याज्ञया शच्यादेशेन चन्दनमानिनाय । तु पुन. स. सर्वप्रसिद्धो मलयाचल: स्वमात्मानं निनिन्द निन्दितपान् । किं लक्षणो मलयाचल: द्विजिह्वबंदीकृतचन्दनद्रुः द्वे जिवे येषां ते द्वि जिह्वाः सपा दुर्जना वा तै' बन्दीकृताः चन्दनद्रवः चन्दनवृक्षाः यस्य सः द्विजि० दुर्जनहस्तगतं वस्तु पुण्यावसरे व्ययितुं न शक्यते इति भावः ॥५१॥ उपाहरनन्दनपादपानां, पुष्पोत्करं तत्र दिशा कुमार्यः। शिरखपुष्यप्रकरस्य शेष-वृक्षवृथा वैवधिकी वभवे ॥५२॥
(न्या०) उपाहरनिति ॥ तत्र मंडपे दिशा कुमायः नन्दनपादपानां (पादः पिबन्ति इति पादपाः स्थापास्नात्रः कः । ५-१-१४२ । इ. सू.