________________
११०) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ।। सर्गः३
या बाला स्यात् सावष्टभं नैव गृह्णाति । केव जरातव यथा जरा जरथा पीडिता एवमेव आलम्बितस्तंभ तिष्ठति हे सलक्षे हे सुज्ञाने त्वमलदयं किमविष्यति आलोकयसि केव साधोः दृष्टिरिव यथा साधो. समाधिस्तिमिता समाधिना योगेन स्तिमिता निश्चला दृष्टि: अलक्ष्यमन्पयति ॥ ५७ ॥ हे मनोरमे त्वं अद्यापि लीलां किं न मुञ्चति कामिव अविद्यामिव यथा साधुसंगे कोऽपि अविद्यामज्ञानं न मुश्चति । हे चलाक्षि त्वं (इतोऽतः कुतः । ७ । २ । ९० । इ. सू. इत: तसन्तो निपात्यते) इतस्ततः (किमद्वयादिसायऽवैपुल्यबहोः पित् तस् । ७ । २ । ८९ । इ. स. तत. तसन्तो निपातः ।) किं पश्यसि केव पामरी इव यथा पामरी ग्रामीणा स्त्री पुरि नगरे निध्याताः दृष्टा युवानः तरुणवयसो यया सानिध्यातयूनी इतस्तत: पश्यसि ॥५८॥ हे हले वधव्यां (तस्मै हिते । ७ । १ । ३५ । इ. सू. वधूशब्दात् हितेऽर्थे यः प्रत्यय.) वधूभ्यो हितां भूषां (भीषिभूपिचिन्तिपूजिकचिकुम्बिचर्षि स्मृहिन्यः । ५। ३ । १०९ । इ. सू. भूषिधातो: अड्, आत् इ. सू. आप्) शृंगारादिकां द्रूतं शीघ्र आनयध्वं यूयं परार्थ धृत्वा धवलान् ददध्वम् ॥ ५९ ।। चतुर्भिः कलापकम् ॥ अथालयः शैलिभिदः प्रियायाः, संरकतकामा वसुधकरत्ने । निवेश्य कन्ये कनकस्य पीठे, रत्नासनाख्यां ददुरस्य दक्षाः ॥१०॥
(०या०) अथेति । अथ अनंत शैलभिदः शैलान् भिनत्तीति शैलभित् (क्वि५ । ५ । १ । १४८ । इ. सू. शैलपूर्वकस्य भिधातोः कर्तरि विव५ ।) तस्य शैलभिद इन्द्रस्य प्रियाया भार्याया शच्या आलयः सख्यः संरकर्तु कामो यासां ताः संरकतुकामाः (तुमश्च मन:कामे । ३ । २ । १४० । इ. सू. तुमो मस्य लोपः ।) अलंकार कर्तुमिच्छवः सत्यः कन्ये सुमंगलासुनन्दे कनकस्य पीठे सुवर्णस्यासने निवेश्य उपवेश्य अस्य कनकपीठस्य रत्नासनाख्यां ददुः । कि विशिष्टे कन्ये वसुधैकरत्ने वसुधायां पृथिव्यां एकरलाये । किं विशिष्टाः
आलय दक्षाश्चतुरा । यत्र रत्नं स्थाप्यते तदपि रत्नासनं कथ्यते । रत्नप्राये कन्ये तयोरासनभेतत् अतो रत्नासनमिदं वक्तव्यमिति दक्षत्वमिति भावः ॥६०॥