________________
૨૮) શ્રીનેનમાલક્ષ્મવાર્થ્ય મહાાવ્યમ્ ટીાલમહંતમ્ " સર્ચ: 3
स्त्रीषु सुवाचां शोभनवाणीनां आचार्यकं आचार्यकर्म विनतु धारयन्तु । किं कुर्वाणा• शचीमुखाः त्वां अनु पश्चात् धवलान् धवलमङ्गलानि ददाना (ददते इति ददाना शस्त्रानिशावेष्यति तु सस्यौ । ५ । २ । २० । इ. सू. दाधातोरानशू हवः शिति । ४-१ - १२ । इ. सू. दाघातोर्द्विर्भावः ह्रस्वः । ४-१-३९ इ. पूर्वस्य इति भागिनि प्रतिपर्यनुभिः 3. A. yatu gta:) calkg sía Hifafa a ulayùgla: 7. 7. fadar 1 सू. द्वितीया । किं लक्षणान् धवलान् रसः शृंगारादिः तस्य उर्मयः कल्लोलाः तैः प्रक्षालनं तेन अपास्तो मलो येषां तान् शृङ्गारादि रसकल्लोलप्रक्षालनेन निरस्तमलान् ॥३१॥
स्वरंगणेऽकारि चिरं स्वरंगा - यो रंभया नृत्यपरिश्रमः प्राक् । अग्रे - भवत्संभविता तदानी - मभ्यासलभ्या फलसिद्धिरस्य ॥ ३२ ॥
( ०या० ) स्वरिति । रंभया रंभानाम्न्या देवांगनया स्वरंगणे स्वर्गीगणे स्वस्य रंगः स्वरंगस्तस्मात् आत्मीयोल्लासात् यः नृत्यस्य नर्तितुं योग्यं (ऋदुपान्त्यादकृपिचूदृचः । ५ । १ । ४१ । इ. सू. नृत् धातोः क्यप् । ) परिश्रमः प्राक् पूर्वं चिरं चिरकालमकारि कृतः । अस्य श्रमस्य फलस्य सिद्धि: फलसिद्धिः तदानी ( सदाऽधुनेदानतदानीमेतर्हि । ७ । २ । ९६ । इ. सू. तदानीं निपातः ) तस्मिन् पाणिग्रहणक्षणे अग्रेभवत् भवतः अग्रे अभवत् संभविता भविष्यति किं लक्षणा फलसिद्धिः अभ्यासेन लभ्या अभ्यासलभ्या अभ्यासप्राप्या || ३२ ॥
त्वत्तः प्रभोः वासहनात्पलाय्य, रामः श्रितच्चरुनारदादीन् । गुणावलीगानमिषेण देव, तदा तदास्यात्सव संगसीष्ट ॥ ३३ ॥
( व्या० ) त्वत्तः इति । हे देव रागस्तदा तस्मिन्नवसरे तदास्यात् तेषामास्यं मुखं तस्मात् तुंबरुनारदादीनां मुखात् गुणावलीगानमिषेण गुणानामावल्यः पंक्तयः तासां गानं तस्य मिषेण निमित्तेन तव संगसीष्ट तव संगतो भूयात् । किं विशिष्टो रागः स्वात्सहनात् स्वस्य निजस्य असनः शत्रुस्तस्मात् एवं विधात् प्रभोः समर्थत्वात् ततः पलाय्य ( प्राकू काले । ५ । ४ । ४७ ।