________________
९०) श्रीजैनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ३
शठी समेतो दृढसख्यमेतो, तारुण्यमारौ कृतलोकमारो । भेत्तुं यत्तेतां मम जातु चित्त-दुर्ग महात्मन्निति मारा मंसाः ॥१६॥
(या) शठाविति ॥ हे महात्मन् त्वमिति मास्म मंस्था मा जानीहि इतीति किं एतौ तारुण्यमारौ तारुण्यं (पति राजा-तगुणाझराजादिभ्यः कर्मणि च । ७-१-६० । इ. सू. तरुणशब्दात् भावे कर्मणि च व्यण तरुणस्य भावस्तारुण्यम् ।) च मारश्च यौवनकंदो जातु कदाचिदपि मम चित्तमेवदुर्ग( सुगदुर्गमाघार । ५-१-१३२ । इ. सू. दुर्वकगम् धातो राधारे डः । डित्यन्यस्वरादे: इ. सू. टिलोप• दुःखेन गम्यते अस्मिन् इति दुर्गः ।) स्तं भेत्तुं यतेतामुपजामत: । किं लक्षणौ तारुण्यमारौ शठौ धूतौ दृढसख्यं ( सखिणिम् दूतायः । ७-१-६३ । इ. सू. सखिशब्दान् भावे कर्मणि च यः अवर्णवर्णस्य । ७-४-६८ । इ. सू. सखिशब्दस्यकारस्य लोप: ) गाढमैत्र्यं यथा भवति तथा समेतौ मीलितो कृतलोकमारौ कृत' लोकानां मार: संसारम्रमणरूप: याभ्यां तौ ॥ १६ ॥ हृत्वा विवेकांवकबोधमंधी-भूतं जगत्पातयदाधिगते । तावचव ज्ञानविभाकरस्य, तन्वीत तारुण्यतमो न मोहम् ॥ १७॥
(०या०) हवेति ॥ हे नाथ तावत् तारुण्यतम तारुण्यं यौवनमेव तमः अंधकारः यौवनांधकारः तव ज्ञानमेव विमाकर: (संख्याऽहर्दिवा विभानिशाप्रभाभाश्चित्र-ट्टः । ५-१-१०२ । इ. सू. विमापूर्वककृपधातोर्ट: विमा करोतीति विभाकरः ) सूर्यः तस्य ज्ञानरूपसूर्यस्य मोहं ( भावाऽकाः । ५-३-१८ । इ. सू. मुद्धातोः धम् मोहन नोह. ।) न तन्वीत न कुर्वीत । किं कुर्वत् तारUयतमः विवेकांवकयोधं विवेक एव अंबक नेत्रं तस्य वोधं ज्ञानं विवेकलोचनज्ञान हत्या अधीभूतं जगद्विश्वं आधेः ( उपसर्गाद: किः । ५-३-८७ । इ. सू. आपूर्वकधाधातो: कि प्रत्यय इडेत् पुसिचातोलक । ४-३-९४ । इ. सू. धाधातोराकारलोपः । ) असमाधेः गत विवरे पातयत् यथा गाशब्द तथा गतशब्दोऽपि ज्ञेयः ॥ १७ ॥