________________
जैनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २ (८७ -
तद्गेहि धर्मद्रुमदोहदस्य, पाणिग्रहस्थापि भवत्वमादिः। न युग्मिभावे तमसीव मनां, महीमुपेक्षस्व जगत्प्रदीप ।। ९ ।।
(व्या०) तदिति ॥ हे नाथ तत् तस्मात् कारणात् त्वं पाणिग्रहस्यापि (व्यञ्जनाद्धम् । ५-३-१३२ । इ. सू. पाणिपूर्वक धातोराधरिच पाणिगैह्यति अस्मिन् इति । ) विवाहस्यापि आदिः प्रथमो भव । किविशिष्टस्य पाणिग्रहस्य हिधर्मद्रुमदोहदस्य गेहिन गृहस्थस्य धर्म स एव द्रुमः वृक्षः तस्य दोहदं तस्य वृक्षा यथा दाडिममुख्या. धूमपानादिदोहदेन पूरितेन सश्रीकाः सफला स्यु तथा अत्रापि ज्ञेयम् । हे जगप्रदीप (अच् । ५-१-४९ । इ. सू. पूर्वकदीपधातोरच्) तमसीव अंधकार इव युग्मिभावे युगलिधर्मे मनां श्रुडितां महीं पृथ्वी न उपेक्षस्व मा उपेक्षां कुरु ॥ ९ ॥
वितन्त्रता केलिकुतूहलानि, त्वया कृतार्थीकृतमेव बाल्यम् । विना विवाहेन कृपामपश्य-चवाध न ग्लायति यौवनं किम् ॥११॥
(व्या.) वितन्वतेति ॥ हे नाथ केलिकुतूहलानि केलिश्च जलक्रीडा कुतूहलानि च गीतनृत्यनाटकादीनि कुर्वता त्वया बाल्य (पतिराजा-तगुणाराजादिभ्य कर्मणि च । ७-१-६० । इ. सू. बालशब्दात् भावेऽर्थव्यण) बालrd कृतार्थीकृतमेव सफलीकृतमित्यर्थः । अथ संप्रति यौवनं (युवादेरण । ७-१-६७ इ. सू. युवन् शब्दात् भावेऽर्थेऽण् ) यूनो भावः यौवनं किं न ग्लायति न दूयते अपि तु ग्लायत्येव किं कुर्वत् यौवनं विवाहेन विना तव कृपामपश्यत् ॥१०॥ दृष्ट्वा जगत्प्राणहतोऽपि सर्व-सहे पहेतीस्त्वयि नाथ मोधाः । अनंगतां कामभटोऽस्य मुख्यः, सखा विषादानुगुणां दधाति ॥११॥
(या०) दृष्ट्वेति ॥ हे नाथ काममटोऽपि कंदर्पयोधोऽपि विषादानुणां विषादस्य अनुगुणां योग्यां अनगतां अंगरहितत्वं दधाति कि विशिष्ट कामभटः अस्य यौवनस्य मुख्यः अग्रणी. सखामित्रं किं कृत्वा सर्वसहे. सर्वसहति (सर्वात