________________
८६) श्रीजैनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ३ त्वदागमां भोनिधितः स्वशात्तया - Sऽदायोपदेशां बुलवान् गभीरात् । घना विधास्यन्त्यवनीवनीस्थान, विनेयवृक्षानभिवृष्य साधून् ॥ ७ ॥
( व्या० ) त्वदागमेति ॥ धना लोका मेघा वा गभीरात् त्वदागमांभोनिधितः (उपसर्गा६ः किः । ५ । ३ । ८७ । इ. सू. निपूर्वक धाधातोः क्रिः । इत् पुसि चातोलुक् । ४ । ३ । ९४ । इ. सू. धाधातो राकारलोपः । अहीयरुहोऽपादाने । ७ । २ । ८८ । इ. सू. पञ्चम्यर्थे तसु प्रत्ययः । अघण् तस्वाद्यो. शसः । १ । १ । ३२ । इ. सू. अव्ययसंज्ञा । नाम्न प्रथमैक द्विबहु । २ । २ । ३१ । इ. सू. स्यादि । अव्ययस्य । ३ । २ । ७ । इ. सू. अव्ययात् स्यादेर्लु५ ) त्वदीयागमसमुद्रात् उपदेश एवं अम्बुलवास्तान् स्वशत्तया स्वस्थ शक्तिस्तया स्वसामर्थ्येन आदाय गृहीत्वा विनेयाः शिष्या एव वृक्षास्तरचसानू अभिवृष्य सिकवा साधून निर्ग्रन्थान् मनोज्ञान वा करिष्यन्ति । किं लक्षणान् अवनीवनीस्थान् अवनी पृथ्वी एव वनी महावनं तस्यां तिष्ठन्तीति तान् । मेघा' समुद्रात् जल ग्रहणन्ति इति लोकरूढि ॥ ७ ॥
भवद्वयेऽप्यक्षय सौख्यदाने, यो धर्मचिन्तामणिरस्त्यजिह्नः । प्रमादपाटचरलुंट्यमानं, त्वमेव तं रक्षितु मीशितासे ॥ ८ ॥
( व्या० ) भवद्वय इति । हे नाथ यो धर्मचिन्तामणिः धर्म एव चिन्तामणि' चिन्तारत्नं भवद्वये भवयोर्जन्मनोर्द्वयं (द्वित्रिभ्या मयट् वा । ७ । १ । १५२ । इ. सू. त्रिशब्दात् वा अयटू 1) तस्मिन् जन्नद्वयेऽपि अक्षयसौख्यदाने નઽસ્ત ક્ષો યસ્ય તત્તત્ત્વ તત્ સૌથ્થું ~ તસ્ય વાન્ તસ્મિન્ અવિનશ્વર सुखप्रदाने अजा सोद्यमोऽस्ति । प्रमाद (भावा । ५ । ३ । १८ । इ. सू. प्रपूर्वक मद् धातोर्घञ् ति । ४ । ३ । ५० । इ. सू. उपान्य वृद्धिः) एव पाटचर (पाटयन् चरतीति पाटचरः पृषोदरादित्वात् सिद्ध:) चौरस्तेन लुंट्यमानं तं धर्मचिन्तामणिं रक्षितुं पालयितुं त्वमेव ईशिता से समर्थो भविष्यसि ॥