SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ श्रीजैनकुमारसम्भवास्यमहाकाव्यम् टीकासमकतम् ॥ सर्ग. ३ (९१ ब्रह्मास्त्रभाजः कुसुमास्त्रयोधी, मारोऽपि किं ते घटते विरोधी। । विरोत्स्यते पा खलु तदहुक्त्वा, भोक्ता पलिस्पर्धफलं खयं सः ॥१८॥ (व्या०) ब्रह्मास्त्रेति ॥ हे नाथ मारोऽपि कंपोऽपि ते तव विरोधी (अतोऽनेकस्वरात् । ७-२-६ इ. सू. विरोधादात मत्वर्थे इन् प्रत्ययः विरोघोऽस्यातीति विरोधी । ) शत्रुः कथं घटते अपि तु न घटते । किं विशिष्टस्य तव ब्रह्म ब्रह्मज्ञानं तदेव अस्त्रं शस्त्रं तद् भजतीति तस्य (भजो विण। ५-११४६ । इ. सू. भज्धातोः कतरि विण । मिति । ४-३-५० । इ. सू. उपान्त्यवृद्धि ।) ब्रह्मास्त्रशब्देन अस्खलित शस्त्र मुच्यते । उक्त च 'केनापि रखलयितुं यत्न, शक्यते क्वापि सर्वथा । तद्ब्रह्मास्त्रंपरिज्ञेयं यथा चक्र हि चक्रिण ॥ १ ॥ किं लक्षणो मारः कुसुमं पुप्पं तदेव अस्त्रं तेन युध्यते इति कुसुमात्रयोधी (अजाते शोले । ५-१-१५४ । इ. सू. शीलेऽर्थे युध् धातोः णिन् प्रत्ययः । ) वा अथवा विरोत्स्यते यदि विरोधं करिष्यति तद्वहु उत्पा खलु पूर्यताम् । स मारः बलिस्पर्धफलं बलवता सह स्पर्धायाः फलं स्वयं भोक्तभोक्ष्यति । यथास्पर्धाशब्दः तथा स्पर्धशब्दोऽपि ज्ञेयः ॥ १८ ॥ यया दृशा पश्यसि देव रामा, इमा मनोभूतरवारिधाराः। तां पृच्छ पृथ्वीधरवंशवृद्धौ, नेता किमंभोघरवारिधाराः ॥ १९ ॥ (व्या०) ययेति ॥ हे देव यया घशा (भ्यादिभ्यो न वा ५-३-११५ इ. सू. हशधातोः स्त्रियां भावे क्वि५ ) अभिप्रायरूपया इमा रामा' - स्त्रियःमनसि हृदये भवतीति मनोभू (क्वि५ ५-१-१४८ । इ. सू. भूधातोः क्षिप् । ) कंदपस्तस्य तरवारिः खड्गः तस्य धारास्ता• कंदपखड्गधाराः पश्यसि । तां दृशं पृच्छ एताः त्रियः पृथ्वीधरवंशवृद्धौ पृथ्वीवराणां राज्ञां वंशाः अन्वया । पक्षे पर्वतानां वंशाः तेषां वृद्ध वृद्धयर्थं किं अंभोधरवारिधाराः अंभोधराणां (आयुधादिभ्यो धृगोऽदंडादे: ५-१-९४ । इ. सू. धृग्धातोरच् नामिनोगुणोऽडिति । ४-३-१ इ. सू. अन्त्यकारस्य गुणः । ) वारिणः धाराः मेघजलधारा न पर्तन्ते अपि तु वर्तन्ते ५५ ॥ १९ ॥
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy