________________
શ્રીñનમાલમવાલ્યમહૃાાવ્યમ્ ટીજાલમતમ્ ॥ સર્વાંઃ રૂ (૮૧
जडाशया गा इव गोचरेषु, प्रजानिजाचारपरम्परासु । प्रवर्तयन्नक्षतदंडशाली, भविष्यसि त्वं स्वयमेव गोपः ॥ ५ ॥
( व्या० ) जडाशया इति ॥ हे नाथ त्वं गोपो ( आतोडोऽहवावाम: । ५ । १ । ७६ । इ. सू. गोपूर्वक पाधातोर्ड । डित्यन्त्यस्वरादे इ. सू आकारस्य लोप: । ) राजा गोपालो वा स्वयमेव भविष्यसि । किं कुर्वन् प्रजा लोकान् निजस्य स्वस्याचारास्तेषां परम्परास्तासु प्रवर्तयन् । का इव गा इव यथा गोपो धेनू' गोचरेषु (गाव. चरन्ति अस्मिन् इति गोचर गोचर संचर वह व्रज - कर्षम् । ५ । ३ । १३१ । इ सू. धान्तो निपातः । ) प्रवर्तयति । किं लक्षणा प्रजाः जड आशयः अभिप्राययासांता : मूर्खाभिप्रयोगा किं लक्षणो गोपः अक्षतदंड. शाली अक्षतश्चासौ दंडश्च सैन्यं पक्षे लकुटो वा तेन शालते इत्येवं शील: अक्षत दण्डशाली (अजाते. शीले । ५ । १ । १५४ । इ. सू. अक्षत दण्डशब्दात् शालू धातो. शीलेऽर्थे णिन् । ) ॥ ५ ॥
कलाः समं शिल्पकुलेन देव त्वदेव लब्धप्रभवा जगत्याम् । क्वनो भविष्यत्युपकारशीलाः, शैलात्सरत्ना इव निर्झरिण्यः ॥ ६ ॥
( व्या० ) कला. इति ॥ हे स्वामिन् कला गीतनृत्यवादित्राहवया द्वासप्रति संख्या कुंमकार १ लोहकार २ चित्रकार ३ वानकार 8 नापित ५ शिल्पानां पञ्चानामपि पृथक् पृथक् विंशति विंशतिभेदा: स्युरेवं शिल्पशतं स्यात् ईदृकू शिल्पकुलेन समं जगत्यां पृथिव्यां वयं कस्मिन् स्थाने उपकारशीलाः उपकार' शीलं स्वभावो यासां ता उपकारस्वभावा न भविष्यन्ति अपि तु सर्वत्र भविष्यन्ति । किं विशिष्टा कला' त्वदेव तव सकाशादेव लब्ध प्रभव उत्पत्ति ચોમિસ્ત!' । । વ સરનાં રત્ન' સહ વર્તન્તુ તિ નિશેરિબ્ધ નવ (અતોડનેस्वरात् । ७ । २ । ६ । इ. सू. निर्झरशब्दात् मत्वर्थे इन् प्रत्ययः । स्त्रियां नृतोऽस्वस्त्रादेर्डी': । इ. सू. डी प्रत्यय 1 ) इव यथा शैलात् पर्वतात् लब्धप्रमवा सरत्नाः नद्यः क्व उपकारशीला न भवन्ति अर्थात् सर्वत्र भवन्त्येव ॥ ६ ॥