________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२
जैनागमन्यायसंग्राहः
औपशमिके तूदयविष्कम्भणमात्रमेव, आहच-मिच्छत्तं जमुइन्नं तं वीणं अणुइयं च उवसंतं । मीसीभाव परिणयं वेइजतं खोवसमं ।। १ ॥ छाया-मिथ्यात्वं यदुदीर्णं ता क्षीणं अनुदीर्ण चोपशान्तम् । मिश्रीभाव परिणतं वेद्यमानं क्षायोगशमिकम् ।। १ ।। त्ति, एतदपि जघन्यतोऽन्तमुहूर्त स्थितिकत्यादुत्कर्षतः घटषष्टि सागरोपस्थितिकत्वाच प्रति पातीति, यदपि च क्षपकस्य सम्यगदर्शनदलिकचरमपुद्गलानुभवनरूपं वेदकमित्युच्यते तदपि क्षायोपशमिकभेदत्वात् प्रतिपात्येवेति, तथा मिथ्यात्व सम्यग्मिथ्यात्वसम्यक्त्वमोहनीयक्षयात् , क्षायिकमिति, श्राहच-"खीणे दसणमोहे तिविहमिविभवनियाणभूयंमि। निष्पच्च वायमउलं सम्मत्त खाइयं होइ।। १॥ छाया-- क्षीणे दर्शनमोहे त्रिविधेऽपि भवनिदानभूते । निष्प्रत्यपायमतुलं सम्यक्त्वं क्षायिक भवति ।। १ ।। त्ति, इदन्तु क्षायिकत्वादेवाप्रतिपाति, अत एव सिद्धत्वेऽ प्यनुवर्तते इति । 'मिछादंसणे' इत्यादि, अभिग्रहः -- कुमतपरिग्रहः स यत्रास्ति तदाभिग्राहिकं तद् वियरोतम् --अनभिग्रहिकमिति । 'अाभग्गाहिए। इत्यादि अभिग्राहिक मिथ्यादर्शनं सपर्यवसितं -सपर्यवसानं सम्यक्त्व प्राप्तौ, अपर्यवसितमभव्यस्य सम्यक्त्वाप्राप्तः, तञ्च मिथ्यात्व मात्रमप्यतीत काल नयानुवृन्याऽऽभियाहिकामति व्यापदिश्श्यते, अनीभग्राहिक भव्यस्य सपर्यवसितमितरस्यापर्यवसितामति, अत एवाह-एवं अरणभी' त्यादि । दर्शनमभिहितमथ ज्ञानमभिधीयते, तत्र दुबिहे नाणे इत्यादीनि आवस्सग वइरित्ते दुविहे' इत्यादि सूत्रावसानानि त्रयो विशंति: सूत्राणि ॥
For Private And Personal Use Only