________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नयद्वारम्
४५
अत्थमि। जइव्वमेव इइ जो उवएसो सो नम्रो नाम ॥ १४० ॥ सव्वेसिंपि नयाणं बहुविहवत्तव्वयं निसामित्ता । तं सन्न नयविसुद्ध जं चरण गुणडिओ साहु ॥ १४१ ॥ से तं नए । अणुयोगद्दारा सम्मता ( सू० १५२ )
टीका: - " ज्ञाते" सम्यन्- अवगते । गिरिहयव्वे" ग्रहीतव्ये उपादेय इत्यर्थः " अग्रहीतव्ये" अनुपादेये, सच हेय उपेक्षणीयश्व द्वयोरप्यग्रहणाविशेषात् च शब्द उक्त समुच्चये, अथवा अग्रहीतव्य शब्देन हेय एबैको गृह्यते उपेक्षणीयं त्वनुक्तमप्ययमेव चकारः समुचिनोति एवो गाथालंकारमात्रे " श्रत्थमित्ति " अर्थे " ऐहिकामुष्मिके, तत्र ऐहिको ग्रहीतव्यः स्रक्- चन्दनाङ्गनादिः अग्रहोतव्योऽहिविष कण्टकादिरुपेक्षणीयस्तृणादिः, आमुष्मिको महोतव्य:सम्यग्दर्शनचारित्रादिः ग्रहीतव्यो मिथ्यात्वादिरुपेक्षणीयस्तुस्वविभूत्यादि, एवंभूतेऽर्थे यतितव्यमेवेति, अत्रैव कारोऽवधारणे, तस्य च व्यवहितः प्रयोगः तद् यथा ज्ञात एवेति, तदयमर्थो - ग्राह्यग्राह्योपेक्षणीयेऽर्थे ज्ञात एव तत् प्राप्तपरिहारोपेक्षार्थिना यतितव्यं प्रवृत्यादि प्रयत्नः कार्य्य इति, "इति” एवंभूतः सर्वव्यवहाराणां ज्ञान निबन्धनत्व प्रतिपादनपरो य उपदेशः स किमित्याह -" नय " इति प्रस्तावाज् ज्ञाननयो “नामेति । शिष्यामंत्रणे इत्यक्षरघटना ॥ भावार्थस्त्वयम् - इह ज्ञाननयोज्ञानप्राधान्यख्यापनार्थं प्रतिपादयति- नन्वैहिका मुष्मिक फलार्थिना तावत्सम्यग्विज्ञात एवार्थे प्रवर्तितव्यम्, अन्यथा प्रवृत्तौ फलविसंवाददर्शनाद् आगमेऽपि च प्रोक्त-पढमं नाणं तदए"
लक्षण:
For Private And Personal Use Only